________________
१८६
प्रशमरतिप्रकरणम्
स्थूलवधानृतचौर्यपरस्त्रीरत्यरतिवर्जितः सततम् ।
दिग्व्रतमिह देशावकाशिकमनर्थविरतिं च ॥३०४॥ दर्शनादिभिरभिरञ्जितं वासितं मनो यस्य स भवति अभिरञ्जितमनस्कः ॥३०३।।
टीका-स्थूलवधेत्यादि । स्थूलात्प्राणातिपाताद्विरतिः प्रथममनुव्रतम् । स्थूला बादरा प्राणिनो ये तेभ्यो विरतिस्तेषामवधः, न सूक्ष्मेभ्यो विरतिः पृथिव्यादिकायेभ्यः । अथवा सङ्कल्पजः स्थूलस्तस्माद्विरतिः । सङ्कल्पं हृदि व्यवस्थाप्य व्यापादयामीति स्थूलप्राणातिपातस्तस्माद्विरतिः प्रथममनुव्रतम् । न पुनरारम्भजाद्विरतिरिति । स्थूलमनृतं यन्निरोधपूर्वकमादित्यमण्डलाधिरोहणे सत्यन्यथा वृत्तमन्यथा भाषते, तस्माद्विरतिः, न परिहासादिभाषणात् । चौर्यमदत्तस्यादानं स्थूलं, यस्मिन्नपहृते २चौर्य इति व्यपदिश्यते, तत्स्थूलं तस्माद्विरतिः । परस्त्रीति । स्वदारसन्तोषव्रतस्य परपरिगृहितस्त्रीगमनं वेश्यापरिभोगो वा स्थूलं तस्माद्विरतिः । परदारनिवृत्तिव्रतस्य तु परपरिगृहितस्त्रीपरिहारः, न तु वेश्यापरिहारः । रत्यरतिभ्यां वर्जितस्त्यक्तः । सततं सर्वदा रतिविषयेषु प्रीतिः, अरतिरुद्वेगः व्रतपरिपालनादिक्रियास्विति । क्षेत्रवस्त्वादिष्विच्छा तस्याश्च परिमाणं व्रतं, 'एतावन्ति ५क्षेत्राणि वस्तूनि हिरण्यं सुवर्णमेतावत् तथा ६धनधान्यं कटाहादि चोपस्करजातं सर्वं परिमितं धार्यम्' इति । परिमाणादुपरि स्थूलं तस्माद्विरतिरनुव्रतम् साक्षादनुपात्तमपि शेषव्रतग्रहणादाक्षिप्तं द्रष्टव्यम् । रात्रिभोजनविरतिश्च यथाशक्तीति । दिग्वतं चतसृषु दिक्षु ऊर्ध्वमधश्च गमनपरिमाणम् । एतावद् गन्तव्यं न परत' इति परतो गमनाद्विरतिः चतुर्मास्यादिषु सकृद् गृह्णाति । तथा देशावकाशिकं व्रतं 'प्रतिदिवसं ममे यति मर्यादा गमनस्य' इति, तस्यैव सकृद्गृहितव्रतस्य देशेऽवकाशं कल्पयति देशावकाशिकं व्रतम् । अनर्थदण्डविरतिव्रतं प्रयोजनाभावोऽनर्थः विना प्रयोजनेनात्मानं दण्डयति अग्निशस्त्रादिप्रदानादिनाऽनेकभेदेन तस्माद्विरतिव्रतम् ॥३०४॥
दर्शनादि-भावनाभिः प्रतीतार्थाभिः कृतद्वन्द्वाभिरिति ।।३०३।।
(३०४) (वि०) तथा स्थूलानि च तानि वधानृतचौर्याणि कृतद्वन्द्वानि च तानि तथा, तानि च परस्त्रीरत्यरती च तास्तथा, ताभिर्वर्जितः स तथा, उपलक्षणत्वात् परिग्रहवर्जित इति च दृश्यम् । सततं-अनवरतं, तथोक्-उपरिष्टादणुव्रतेभ्यः दिग्व्रतं देशावकाशिकमनर्थविरतिं चेति ॥३०४।।
(३०४) (अव० )-१स्थूलानियतानि वधादीनि वा रत्यरती शुभाऽशुभवस्तुनि । एतावता परिग्रहः । ताभीरत्यरतीभिर्वर्जितः परिग्रहवर्जित इत्यर्थः । सततं अनवरतम् । तत ऊर्ध्वमुपरिष्टादणुव्रतेभ्यो दिग्व्रतादि ॥३०४॥