________________
प्रशमरतिप्रकरणम्
पूर्वोक्तभावनाभावितान्तरात्मा विधूतसंसारः । सेत्स्यति ततः परं वा स्वर्गान्तरितस्त्रिभवभावात् ॥३०२॥ यश्चेह जिनवरमते गृहाश्रमी निश्चितः सुविदितार्थः ।
दर्शन-शील-व्रतभावनाभिरभिरञ्जितमनस्कः ॥३०३॥
(३०२) टीका-पूर्वोक्तभावनेत्यादि । पूर्वोक्ता द्वादश भावना या अनित्यादिकाः । १ताभिर्भावितो वासितोऽन्तरात्मा ज्ञानदर्शनोपयोगस्वभावः । विधूतस्त्यक्तो विक्षिप्तो २नारकतिर्यङ्मानुष्यदेवगतिलक्षणभेदभिन्नः संसारो येन स विधूतसंसारः, उत्तीर्णप्रायः संसारसागरात् स्वल्पशेषभव इत्यर्थः । सेत्स्यति सिद्धि प्राप्स्यति एवंविधक्रियानुष्ठायी ततः परं प्रकर्षतः स्वर्गान्तरितस्त्रिभवभावात् । सम्प्रति मनुष्य उक्तानन्तरक्रियानुष्ठायी, ततो देवस्तस्मात्प्रच्युतः पुनर्मनुष्यः सन् सेत्स्यतीति । त्रीन् भवाननुभूय त्रीणि जन्मानि लब्ध्वेत्यर्थः ॥३०२॥
(३०३) टीका-एवं यतेश्चर्यामभिधाय गृहाश्रमिणं प्रत्याह-यश्चेह जिनवरेत्यादि । इह मनुष्यलोके यो गृहाश्रमी जन्म लब्ध्वा गृहस्थ एव तीर्थकरवचने सुविदितार्थः सन् निश्चित: 'सत्यं भगवद्भिरुक्तम् , एतदेव संसारादुत्तारकं प्रवचनम्' । दर्शनं तत्त्वार्थश्रद्धानलक्षणम् ३शीलमुत्तरगुणाः, व्रतग्रहणादनुव्रतानि, अनित्यादिका द्वादश भावनाः, एवं
__ (३०२) (वि०) पूर्वोक्तेति । तथा पूर्वोक्ताभिर्भावनाभिर्भावितोऽन्तरात्मा-मनो यस्य स तथा । विधूतः-अपनीतः संसारो येन स तथा । किं ?-सेत्स्यति-मोक्षं यास्यति । ततो-मनुजभवात् परम्-अनन्तरं स्वर्गान्तरितः । कथं?-प्रथमभवे चारित्री द्वितीयभवे देवः तृतीये मनुजः, तत्र चारित्रं प्राप्य मोक्षगामीति 'त्रिभवभावात्, वाशब्दात् सप्ताष्टभवान्ते वा सेत्स्यति । तत्र सप्त भवा देवा अष्टौ चारित्रयुताः, मिलिताः पञ्चदश १५ इति, अविराधितश्रामण्यस्य 'नरस्य त्वष्टमे चारित्रे मोक्षः, अत्र विचाले भवा अनेकादयो द्रष्टव्याः ॥३०२॥
(३०३) (वि०) साम्प्रतं गृहाश्रमपरिपूर्णधर्मयुक्तानामनन्तरपरम्परफलमभिधित्सुराहयश्चेति । यश्च कश्चन इह जिनवरमते-सर्वज्ञागमे गृहाश्रमी मनुष्य: निश्चित:-कृतनिश्चयः
दतार्थ:-अतिशयज्ञाताभिधेयः तथाऽभिरञ्जितमनस्को-वासितान्तःकरणः । काभिः कृत्वा ?
(३०२ ) (अव०)-भावितोऽन्तरात्मा मनो यस्य सः । ततः परं मनुष्यलोकात् स्वर्गान्तरितः ॥३०२॥
(३०३) (अव०)-इह मनुष्यलोके जिनागमे मनुष्यः श्रावकः निश्चयेन कृतनिश्चयः । अतिशयज्ञाताभिधेयः, दर्शनं सम्यक्त्वं, व्रतानि अनुव्रतादीनि भावितव्रतः । इत्यार्याषट्कस्य प्रशमरतिस्वर्गापवर्गफलप्रतिपादकस्य सक्षेपार्थः ॥३०३॥