________________
१८४
प्रशमरतिप्रकरणम्
तत्र सुरलोकसौख्यं चिरमनुभूय स्थितिक्षयात् तस्मात् । पुनरपि मनुष्यलोके गुणवत्सु मनुष्यसङ्ग्रेषु ॥३००॥ जन्म समवाप्य कुलबन्धुविभवरूपबलबुद्धिसम्पन्नः । श्रद्धा-सम्यक्त्व-ज्ञान-संवर-तपोबलसमग्रः ॥३०१॥
(३००) टीका-तत्र सुरेत्यादि । १सौधर्मादौ सुरलोके सौख्यमनुभूय चिरं स्थितिभेदादुपर्युपरीति । ततः स्थितिक्षयादायुषः । तस्मात्सुरलोकान्मनुष्यलोकमागत्य गुणवत्सु मनुष्येषु विशिष्टान्वयेषु जातिकुलाचारसम्पन्नेषु सङ्केष्विति बहुपुरुषकेषु ॥३००।।
(३०१) टीका-जन्म समवाप्येत्यादि । समवाप्य आत्मलाभं जन्म । बन्धुः स्वजनलोकः । कुलं २पितुरन्वयः । विभवो द्रव्यसम्पत् । रूपं विशिष्टशरीरावयवसन्निवेशः । बलं वीर्यसम्पत् । बुद्धिरौरेत्पत्तिक्यादिः । एभिर्बन्धुकुलादिभिः सम्पन्नः सम्बन्धः । श्रद्धा भगवदर्हत्सु प्रीतिरतिशयवती, दक्षिणीयेषु च यतिषु श्रद्धा परितोषः । सम्यक्त्वं तत्त्वार्थश्रद्धानलक्षणम् । “मत्यादिज्ञानं यथासम्भवम् । संवर आश्रवनिरोधलक्षणः, तपोबलं तपसि द्वौ द्वादशविधे उत्साहोऽनुष्ठानं च । एभिः समग्रः सम्पूर्णः संयुक्तो वेति ॥३०१॥
(३०० ) (वि०) तत्रेति । तत्र-विमाने सुरलोकसौख्यं चिरं-प्रभूतकालमनुभूय संवेद्य सेत्स्यतीत्यग्रे योगः । स्थितिक्षया'दायु:क्षयात्तस्माद् विमानाच्च्युतः सन् । पुनरपि-भूयोऽपि मनुष्यलोके-नरलोके गुणवत्सु-सम्यक्त्वादिगुणयुतेषु मनुष्यसङ्केषु पित्र्यादिप्रचुरजनेष्विति ॥३००।।
(३०१) (वि०) जन्म समवाप्य सेत्स्यतीत्यत्रास्याप्यो सम्बन्धः, कीदृशः सन् ?, कुलं-उग्रादि बन्धुः-पित्रादिवंशः, विभवो-धनादिः, रूपं-करादिसमतास्वभावं बलं-प्राणो, बुद्धिःऔत्पत्त्यादिका ताभिः सम्पन्नो-युक्तः कुलबन्धुविभवरूपबलबुद्धिसम्पन्नः । तथा श्रद्धादिभिः कृतद्वन्द्वैः प्रसिद्धार्थैः समग्रः-समन्वित इति ॥३०१।।
(३००) (अव०)-विशिष्टान्वयेषु बहुपुरुषेषु गुणवत्सु-सम्यक्त्वादिगुणयुतेषु ॥३००॥
(३०१) (अव० )-उत्पत्तिमात्मलाभं प्राप्य । कुलमुग्रादि । बन्धुः पित्रादिवंशः । विभवो-धनादिः । रूपं करादेः समतास्वभावं । बलं-प्राणः । बुद्धिरौत्पत्तिक्यादिका । ताभिः सम्पन्नः ॥३०१॥