________________
प्रशमरतिप्रकरणम्
संहननायुर्बलकालवीर्यसम्पत्समाधिवैकल्यात् । कर्मातिगौरवाद्वा स्वार्थमकृत्वोपरमेतेति ॥ २९८ ॥
सौधर्मादिष्वन्यतमकेषु सर्वार्थसिद्धिचरमेषु । स भवति देवो वैमानिको महर्द्धिद्युतिवपुष्कः ॥२९९॥
१८३
( २९८ ) टीका - संहननायुरित्यादि । संहननं वज्रर्षभनाराचादि । आयुः स्वल्पं । १बलहानिर्दुर्बलशरीरत्वादसामर्थ्यस्य हेतुः । कालो दुःषमादिः । वीर्यसम्पन्नास्ति २ प्रचुरवीर्यत्वाभावः। समाधिः स्वस्थता चित्तस्याव्यग्रता सापि नास्ति । एषां संहननादीनां वैकल्याद्विकलत्वात् । कर्मणां चातिगौरवात् ज्ञानावरणादीनाम् इति । गौरवं निकाचनावस्थाप्राप्तिः। स्वार्थः सकलकर्मक्षयः । तमकृत्वा म्रियते ' उपमेति तपस्वी ॥ २९८॥
( २९९ ) टीका- सौधर्मादीत्यादि । सम्यग्दृष्टिर्वैमानिकेष्वेवोत्पद्यते सौधर्मादिषु कल्पेषु द्वादशसु, नवसु च ग्रैवेयकेषु पञ्चसु 'सर्वार्थसिद्ध्यादिविमानेषु स्वर्गपर्यन्तव्यवस्थापितेषु देवः सञ्जायते वैमानिकान्यतमस्थाने विमानवासीत्यर्थः । महती ऋद्धिर्द्युतिर्वपुश्च यस्य स महर्द्धिद्युतिवपुष्कः३ । ऋद्धिः परिवारादिका, द्युतिः शरीरच्छाया, वपुः शरीरं, तदपि महत् न प्रमाणतः किन्तु महत्पूजितः । ५ समचतुरस्रसंस्थानं वैक्रियम् उत्तरोत्तरसंस्थानप्राप्तौ च स्थितिः प्रभावः सुखादिभिः प्रकृष्टं प्रकृष्टतरं प्रकृष्टतमं च ६ भवतीति ॥२९९॥
( २९८ ) ( वि० ) संहननेति । संहननं वज्रऋषभनाराचमायुः अशेषकर्मक्षपणसमर्थं, बलं शरीरादिसमुद्भवं कालो-दुष्षमसुषमादिः, वीर्यसम्पद् - उत्साहसमृद्धिः, समाधिः -चित्तस्वास्थ्यम् एषां षण्णां पदानां वैकल्याद् - असम्पूर्णत्वात्, तथा कर्मातिगौरवाद्वा - ज्ञानावरणादिकर्मणां बहुस्थितित्वादिति हेतुद्वयात् स्वार्थं कर्मक्षयमकृत्वा - अविधाय उपरमं - पर्यन्तमेति-गच्छति ॥२९८॥
( २९९ ) ( वि० ) सौधर्मादीति । सौधर्मादिषु अन्यतमकेषु 'सर्वार्थसिद्धचरमेषु स भवति देवो वैमानिको महान्ति-पूज्यानि 'अर्ह मह पूजाया' मिति धातोः ऋद्धिद्युतिवपूंषि यस्य स तथेति ॥ २९९ ॥
(२९८ ) ( अव० )–वीर्यसम्पत्साहससमृद्धिः । एतेषां संहननादीनां १ विकलत्वात् । कर्मणां निकाचनावस्थाप्राप्तिः । कर्मक्षयमकृत्वाऽविधाय उपरमं विनाशमेति गच्छति ॥२९८॥ (२९९ ) ( अव० )–नवसु ग्रैवेयकेषु । 'अर्ह मह पूजायां' इति धातोर्महान्ति = पूज्यानि ऋद्धिद्युतिवपूंषि यस्य ॥२९९॥