________________
१८२
प्रशमरतिप्रकरणम्
देहमनोवृत्तिभ्यां भवतः शारीरमानसे दुःखे । तदभावात् तदभावे सिद्धं सिद्धस्य सिद्धिसुखम् ॥ २९६॥ यस्तु यतिर्घटमानः सम्यक्त्वज्ञानशीलसम्पन्नः । वीर्यमनिगूहमानः शक्त्यनुरूपप्रयत्नेन ॥ २९७ ॥
( २९६) टीका-अनुपमं तत्र सुखमस्तीति कथमवगम्यत इत्याह- देहमनोवृत्तीत्यादि । देहः शरीरं मनश्चित्तं तयोर्वृत्तिर्वर्तनं सद्भावः आत्मनि संश्लेषस्तत्र शरीरसंश्लेषाच्छारीरं दुःखमुपजायते । मनः सम्बन्धाच्च मानसं दुःखमिष्टवियोगादौ । तस्य च शरीरमनसोरभावे सति तत्कृतस्य दुःखस्याभाव: । दुःखाभावे च सिद्धं स्वाभाविकं प्रतिष्ठितमव्याहतं सिद्धिसुखमिति ॥ २९६॥
(२९७) टीका–यस्तु यतिर्घटेत्यादि । यतिस्तपस्वी साधुर्घटमानश्चेष्टमानः प्रवचनोक्तसकलक्रियानुष्ठायी । सम्यक्त्वेन शङ्कादिशल्यरहितेन सम्यग्ज्ञानेन च श्रुतादिना शीलेन च मूलोत्तरगुणरूपेण सम्पन्नः । शक्तिर्वीर्यं सामर्थ्यं तदनिगूहमानोऽपह्नवमकुर्वन् स्वशक्त्यनुरूपेण प्रयत्नेन च चेष्टते । अहर्निशमनुष्ठेयासु क्रियासु शाठ्यरहितः ॥२९७॥
( २९६ ) ( वि० ) देहेति । देहमनोवृत्तिभ्यां - शरीरचित्तवर्तनाभ्यां कृत्वा भवतो -जायेते । के ?, अत आह-शारीरमानसे दुःखे इति, प्रतीतम् । तथा तदभावो 'दुःखाभावो वर्तते, क्व ? तदभावेदेहाद्यभावे, कारणाभावे कार्याभाव इत्यर्थः । ततः सिद्धं प्रतिष्ठितं सिद्धस्य - मुक्तस्य सिद्धिसुखमिति ॥ २९६ ॥ इति शिवगमनविधानाधिकारः ॥२२॥
॥२९७ ॥
(२९७) (वि० ) इति प्रशमरतेर्मुख्यफलमुक्तम्, अधुनाऽवान्तरसुखपूर्वकं तदेवाह— यस्त्विति । यः पुनरनिर्दिष्टनामा यतिः - साधुः । कीदृश: ? - घटमानः- चेष्टमानः तां तां क्रियां कुर्वन्, तथा सम्यक्त्वज्ञानशीलैः कृतद्वन्द्वैः सुगमार्थैः सम्पन्नः - युक्तः सम्यक्त्वज्ञानशीलसम्पन्नः। तथा अनिगूहमानः-अनाच्छादयन् । किं तत् ? - वीर्यम् - उत्साहम्, कथम् ? - शक्त्यनुरूपं यथाशक्ति । केन ? - प्रयत्नेन - आदरेणेति ॥ २९७ ॥
(२९७) (अव० )—–घटमानः प्रवचनोक्तसकलक्रियासु प्रयत्नेन चेष्टतेऽहर्निशं क्रियासु