________________
प्रशमरतिप्रकरणम्
१८१
पूर्वप्रयोगसिद्धेर्बन्धच्छेदादसङ्गभावाच्च ।
गतिपरिणामाच्च तथा सिद्धस्योर्ध्वं गतिः सिद्धा ॥२९५॥ तस्मादधस्तिर्यग्वा गतेरसम्भवात् । २इहैव चावस्थाने नास्ति किञ्चित्कारणमतो गच्छत्यूर्ध्वमेव सिद्धः । सा चोर्ध्वगतिरालोकान्तादेव भवति, न परतः, उपग्रहाभावादित्युक्तम् ॥२९४।।
(२९५) टीका-अथोर्ध्वगतिस्तस्य निष्क्रियस्य सतः कथं भवतीत्याशङ्क्याहपूर्वेति । पूर्वप्रयोगः तृतीये शुक्लध्याने सूक्ष्मक्रियाप्रतिपातिनिवर्तमानेन देहविभागहानिविधानकाले यः संस्कार आहितः क्रियायास्तेन पूर्वप्रयोगेण 'सिद्धर्बन्धच्छेदात् असङ्गभावाच्च तस्य गमनं सिध्यति अतः पूर्वप्रयोगसिद्धेयॊलागमनवत्पूर्वसंस्काराद्भवति । तथा बन्धनच्छेदादेरण्डबीजकुलिकादिवत् कर्मबन्धनत्रोटनादूर्ध्वं गतिः सिद्धा भवति मुक्तात्मनः । असङ्गभावात् २गतलेपालाबुवत् पयसि प्लवते सङ्गो लेपस्तदभावादसङ्गत्वात् । तथा गतिपरिणामाच्च दीपशिखावत्, न हि दीपस्य जातुचिच्छिखाऽग्नेर्वा ज्वाला निमित्ताभावे सति तिर्यगधो वा व्रजति । तस्मादूर्ध्वमेव गच्छति मुक्तात्मेति ॥२९५॥
द्वन्द्वयोः, चः समुच्चये, अभावात् तिर्यग् न तस्य गतिरस्ति । तथा सिद्धस्य-मुक्तस्योर्ध्वगतिरेव भवति । 'किं तत् ?, आलोकान्तात्-लोकान्तं यावदिति ।।२९४॥
(२९५) (वि०) यथा मुक्तस्य समयमेकं गतिर्भवति तथा हेतूनाह-पूर्वेति । सिद्धस्योर्ध्वं गतिः सिद्धा । कुतः ?, हेतुवृन्दात्, तदेवाह-पूर्वप्रयोगसिद्धः कुम्भकारभ्रामितचक्रस्य कुम्भकारव्यापाराभावेऽपि कियत्कालभ्रमणवत् । बन्धनच्छेदादेरण्डफलवत् । असङ्गभावादलाबुवत् । गतिपरिणामाच्चाग्निधूमवत् । अत्रार्थे आगमगाथा
'लाऊ एरंडफले अग्गी धूमे य इसु धणुविमुक्के । गइ पुव्वपओगेणं एवं सिद्धाण वि गईओ ॥ त्ति ॥२९५।। ('लाबूरेरण्डफलम् अग्निधूमश्च इषुर्धनुर्विमुक्तः । गतिः पूर्वप्रयोगेण एवं सिद्धानामपि गतिस्तु ॥)
तिर्यग्गतिरस्ति । तथा सिद्धस्य मुक्तस्योर्ध्वमेव गतिर्भवति कियद् ? यावदलोकान्तम् ॥२९४॥
(२९५) (अव०)-'कुम्भकारभ्रामितचक्रस्य तद्व्यापाराभावेऽपि भ्रमणवत् । एरण्डफलवत् । अलाबुवत् । परमहंसवत् । ज्वलनधूमवत् । तृतीये शुक्लध्याने सूक्ष्मक्रियया प्रयोगेण ॥२९५॥