________________
१८०
प्रशमरतिप्रकरणम्
नाधो गौरवविगमादशक्यभावाच्च गच्छति विमुक्तः । लोकान्तादपि न परं प्लवक इवोपग्रहाभावात् ॥२९३॥ योगप्रयोगयोश्चाभावात्तिर्यङ् न तस्य गतिरस्ति । सिद्धस्योर्ध्वं मुक्तस्यालोकान्ताद् गतिर्भवति ॥२९४॥
२प्रलेपाष्टकलिप्ताम्बुतुकस्येव जलमध्यक्षिप्तस्याष्टासु शीर्णेषु लेपेषु जलस्योपर्येवावस्थानमाश्रयः नाधः, तथा मुक्तस्याप्यत्रोपघ्नो नास्तीत्यत इह नावतिष्ठत इति । तथाऽप्रयोगात् अप्रयोगोऽव्यापार आत्मनस्तस्य च तादृशी नास्ति क्रिया, ययावस्थानं कल्पयिष्यते अतोऽप्रयोगाच्च न स तिष्ठत्यत्रेति ॥२९२।।
(२९३) टीका-एवं तद्दूर्ध्वमेव तेन गन्तव्यं नान्यत्रेति कुतो नियम इत्याह-नाध इति । यतो गुरुद्रव्यमधो गच्छद् दृष्टं २पाषाणादि, तस्य गौरवं नास्त्यपेतकर्मत्वात् । अशक्यभावाच्च अशक्योऽनुपपन्नः खल्वयं भावो यत्सर्वकर्मविनिर्मुक्तोऽत्यन्तलघुरधो गमिष्यतीति । न च लोकान्तात्परतो गच्छति, उपग्रहकारिधर्मद्रव्याभावात् । प्लवकस्तारकस्तद्वत् यानपात्रवत् मत्स्यादिवद्वा स्थलेषु गमनशक्तेरभावात् ॥२९३।।
(२९४) टीका-योगप्रयोगेत्यादि । योगा 'मनोवाक्कायख्यास्तदभावात् । प्रयोग आत्मनः क्रिया तदभावाच्च । तिर्यग्दिक्षु प्राच्यादिकासु न तस्य गतिसम्भवः ।
सिद्धिरेवाश्रयः । तथा अप्रयोगाद्-अव्यापारात्, न स व्यापारोऽस्ति येन भवे स्थीयत इति ॥२९२।।
(२९३) (वि०) यदि स न तिष्ठत्यत्र तर्हि अधो यायात् ?, नेत्याह-नाध इति । ननैवाधो गच्छेन्मुक्तः। कुतः?-गौरवस्य-गुरुत्वकारिकर्माष्टकस्याधोगमनहेतोविंगमाद्-अभावाद् । अशक्यभावात्-अशक्योऽयं भावो यत् सर्वकर्मविमुक्तोऽधो गच्छतीति । चः समुच्चये । तथा लोकान्तादपि न परं गच्छति उपग्रहकारिधर्मद्रव्याभावात् । दृष्टान्तमाह-प्लवक इवेति, 'प्लवक:तारकस्तद्वत् मण्डूकवत् यानपात्रवन्मत्स्यादिवद्वेति । अयमर्थः-यथैते मण्डूकादयो जलाभावान्न स्थलं यान्तीति, तथा जीवोऽप्यलोकं न यातीति ॥२९३।।
(२९४) (वि०) योगेति । योगो-मन:प्रभृतिः प्रयोगः-आत्मनः क्रिया तयोः कृत
संसारव्यापाराभावात्-शरीरादिकारणाभावाच्च ॥२९२॥
(२९३) (अव०)-अधो न याति गुरुत्वाभावात्, अशक्योऽयं भावो यत्कर्ममुक्तोऽधो याति । लोकान्तादपि परतो न याति मुक्तः, उपग्रहकारिधर्मद्रव्याभावात् । प्लवकस्तारकः 'यानपात्रं यथा स्थले न याति, उपग्रहाभावात् ॥२९३॥
(२९४) (अव० )-योगो मनःप्रभृतिकः, प्रयोग आत्मनः क्रिया, तयोरभावान्न