________________
प्रशमरतिप्रकरणम्
१७९
त्यक्त्वा शरीरबन्धनमिहैव कर्माष्टकक्षयं कृत्वा । न स तिष्ठत्यनिबन्धादनाश्रयादप्रयोगाच्च ॥२९२॥
परिणामित्वात् जीवो ज्ञानदर्शनोपयोगात्मा, न पुनरभावः । स्वलक्षणमुपयोगस्तद्भावः स्वालक्षण्यं तस्मात्स्वालक्षण्यात् । न जातुचिदुपयोगात्मस्वतत्त्वं जहाति जीवः । स्वत एव चार्थाः २सिद्धाः ज्ञानदर्शनोपयोगस्वभावत्वमात्मनो न कुतश्चिन्निमित्तादुत्पन्नः । स्वत एवासावनादितादृशोऽर्थः । यद्यपि प्राच्योपयोगोपरतौ उपयोगान्तरमुदेति, तथाप्युपयोगसामान्यान्न भिद्यते, ज्ञानस्वभावत्वात् । तथा भावान्तरसङ्क्रान्तेः, भावो हि भावान्तरत्वेन सङ्क्रामति, न सर्वथोच्छिद्यते द्रव्यक्षेत्रकालभावापेक्षः, इतो ग्रामान्तरगतपुरुषादिवत् । इतश्च नाभावो मुक्तः । सर्वज्ञाज्ञोपदेशाद् वीतरागाः सर्वज्ञास्तत्प्रणीतागम आज्ञा, तदुपदेशात् सिद्धात्मा ज्ञानदर्शनस्वभावोऽस्तीति व्यवस्थितमिति ॥२९१।।
(२९२) टीका-त्यक्त्वा शरीरबन्धेत्यादि । इहैव मनुष्यलोके कस्मान्न तिष्ठति ? उच्यते-शरीरमेव बन्धनं तद्विहाय । कथं पुनरात्यन्तिकशरीरत्यागः ? कर्माष्टकक्षयकरणादत्यन्तवियोगः शरीरकस्य । न चासाविहैव तिष्ठति, अनिबन्धनत्वात्, न हि तस्येह किञ्चिन्निबन्धनमासने कारणमस्ति । शरीरादिनिबन्धनमिहावस्थाने भवति, तच्च समस्तमेव ध्वस्तम् । अनाश्रयत्वात् मुक्तस्यात्यन्तलघोराश्रयः सर्वस्य लोकाग्रशिखरं भवति ।
छाद्मस्थिकोपयोगात् कैवल्योपयोगान्तरमुदेति तथाऽप्युपयोगसाम्यान्न भिद्यते ज्ञानस्वभावत्वाद् । तथा भावान्तरसङ्क्रान्तेः सकाशान्मुक्तो नाभावो, भावो हि भावान्तरत्वेन सङ्क्रामति, न सर्वथोच्छिद्यते प्रदीपवत्, यथा प्रदीपो भास्वररूपतामपहाय 'तामसरूपतां याति । तथा सर्वज्ञाज्ञोपदेशाच्च हेतो भावो, जिनागमभणनाच्चेति ॥२९१।।
(२९२) (वि०) त्यक्त्वेति । त्यक्त्वा-हित्वा । किं ?-शरीरमेव बन्धनं शरीरबन्धनम्, इहैव-मनुजभवे । तथा कृत्वा किं?-कर्माष्टकक्षयं न स तिष्ठति । कुतः ?-अनिबन्धान्-मनुजादिभवकारणानामत्यन्तप्रलयात् । तथा अनाश्रयाच्च, मुक्तस्य हि मनुजभवो नाश्रयः, किन्तु
स्वतोऽर्थसिद्धेः । यद्यपि छाद्यस्थिकोपयोगात्केवल्युपयोगान्तरमुदेति, तथाप्युपयोगसाम्यान्न भिद्यते ज्ञानस्वभावत्वात् । भावान्तरसङ्क्रान्तेः जलस्थितलवणस्य रूपतोऽदर्शनेऽपि रसत उपलब्धिवत् ॥२९॥
__ (२९२) (अव०)-इहैव संसारे स न तिष्ठति, अनिबन्धनात् मनुजादिभवकारणा१नामत्यन्तप्रलयात् । अनाश्रयात् मुक्तस्य हि मनुजभवोऽनाश्रयः, किं तु सिद्धिरेव ।