________________
१७८
प्रशमरतिप्रकरणम्
सादिकमनन्तमनुपममव्याबाधसुखमुत्तमं प्राप्तः । केवलसम्यक्त्वज्ञानदर्शनात्मा भवति मुक्तः ॥२९०॥ मुक्तः सन्नाभावः स्वालक्षण्यात् स्वतोऽर्थसिद्धेश्च ।
भावान्तरसङ्क्रान्तेः सर्वज्ञाज्ञोपदेशाच्च ॥२९१॥ लोकाग्रगतः स एव गव्यूतषड्भागो लोकाग्रं, तं प्राप्तः सिध्यति । पूर्वाहितगतिसंस्थानभावे सति सिद्ध उच्यते । तत्रस्थः साकारेणोपयोगेन ज्ञानोपयोगे वर्तमान सिध्यति न दर्शनोपयोग इति । यस्माल्लब्धयः सर्वाः साकारोपयुक्तस्यैव भवन्तीत्यागमः ॥२८९॥
(२९०) टीका-सादिकमनन्तेत्यादि । सहादिना सादिकं सिद्धत्वपर्यायवत् । अनन्तमपर्यवसानम् । अविद्यमानोपमानमनुपमम् । अविद्यमानव्याबाधमव्याबाधम् । रोगातङ्कादिद्वन्द्वरहितम् । एवंविधं सुखमनुत्तरं प्राप्तः । केवलं क्षायिकं सम्यक्त्वम्, केवल ज्ञानम्, केवलदर्शनम् । केवलमित्यसहायं सम्यक्त्वं पुद्गलरहितम् । एतान्यात्मा यस्य स्वभावः स एवंरूपस्तत्र मुक्त इति ॥२९०।।
(२९१) टीका-केषाञ्चिदभावमात्रं मोक्षस्तन्निराकरणायाह-मुक्तः सन्नाभावेत्यादि। अष्टाभिः कर्मभिर्मुक्त आत्मा चेतनास्वभावः ज्ञानदर्शनोपयोगलक्षणः । तस्य सर्वात्मना निरन्वयो नाश इति 'दुःसाधं, परिणामित्वात् । दीपशिखादिवत् । ते हि प्रदीपपुद्गलाः कज्जलाद्याकारेण प्रादुःषन्ति, पुनश्च परिणामान्तरेण जायन्त इति प्रत्यक्षप्रमाणसमधिगम्याः । निरन्वयनाशे च जैनेन्द्रात् प्रतिहेतुदृष्टान्तानामसम्भव एव । अतः
(२९०) (वि०) सादीति । सादिकं-यस्मिन् समये स सिद्धोऽजनि तमेवादिं कृत्वा अनन्तं पुनः क्षयाभावाद्, अनुपमम्-उपमातीतं, अव्याबाधसुखं-व्याबाधारहितं, सातमुत्तमं-सर्वोत्कृष्टं प्राप्तो-गतवान् । तथा केवलानि-अद्वितीयानि सम्यक्त्वज्ञानदर्शनान्यात्मा-स्वरूपं यस्य स तथा । भवति मुक्तः कृत्स्नकर्मक्षयादिति ॥२९०।।
(२९१)(वि०) केषाञ्चिदभावमात्रं मोक्षस्तन्निराकरणमाह-मक्त इति । मक्तः सन जीवो नाभावो-नैवासद्रूपः । कुतः ?-स्वालक्षण्याद्-उपयोगलक्षणो जीव इति स्वरूपाद्धेतोः, अवस्थितोपयोगेन सततं व्याप्तत्वाज्जीवस्य । इदमपि कुतः ?-स्वतोऽर्थसिद्धेः-जीवस्वाभाव्यादेवार्थानां-ज्ञानोपयोगादीनां सिद्धिर्जीवस्य निर्हेतुकैव तस्मात् स्वतोऽर्थसिद्धेः । यद्यपि
(२९०) (अव०)-सादिकं यस्मिन् सिद्धोऽजनि तमादिं कृत्वा । अनन्तं पुनः क्षयाभावात् । व्याबाधारहितं । केवलान्यद्वितीयानि क्षायिकानि । मुक्तः कृत्स्नकर्मक्षयात् ॥
(२९१) (अव० )-मुक्तः सन् जीवो नाभावोऽसद्रूपः स्वलक्षणस्य ज्ञानदर्शनादेर्भावात्,