________________
प्रशमरतिप्रकरणम्
देहत्रयनिर्मुक्तः प्राप्यर्जुश्रेणिवीतिमस्पर्शाम् । समयेनैकेनाविग्रहेण गत्वोर्ध्वमप्रतिघः ॥२८८॥
सिद्धिक्षेत्रे विमले जन्मजरामरणरोगनिर्मुक्तः । लोकाग्रगतः सिद्ध्यति साकारेणोपयोगेन ॥२८९॥
१७७
(२८८ ) टीका - देहत्रयेत्यादि । सिद्ध्यतस्तु नियमेनैव देहत्रयमौदारिकतैजसकार्मणाख्यं भवति । तेन निरवशेषेण मुक्तो निर्मुक्तो विरहितः । ऋजुश्रेणिवीतिम् ऋज्व्याः श्रेण्या वीतिं गतिं प्राप्य । कीदृशीम् ? अस्पर्शामविद्यमानस्पर्शाम् । सकलकर्मक्षयसमयादन्यं समयं न स्पृशति, नापि स्वावगाहप्रदेशात्प्रदेशान्तरं स्पृशतीत्यस्पर्शेत्युच्यते । एकेन समयेनासावविग्रहेणावक्रगत्या गत्वोर्ध्वम् ऊर्ध्वलोकान्तमप्रतिघोऽप्रतिहतगतिः । पुनरविग्रहग्रहणं समयविशेषणम् । न ह्येकस्मिन् समये विग्रहः सम्भवतीति ॥२८८॥
(२८९) टीका - स पुनर्गत्वा क्वावतिष्ठत इत्याह - सिद्धिक्षेत्र इत्यादि । कार्त्स्न्येन कर्मनाशः सिद्धिस्तस्याः क्षेत्रमाकाशं यत्रावगाहः सिद्धस्य । तच्चेषत्प्राग्भारापृथिव्युपलक्षितं तस्याः पृथिव्या उपरितनतलाद्यदुपरितनं योजनं, तस्य यदुपरितनं गव्यूतं, तस्यापि गव्यूतस्योपरितनो यः षड्भागः, त्रीणि धनुःशतानि त्रयस्त्रिंशदधिकानि धनुषश्च त्रिभागः, एष गव्यूतस्य षड्भागः, तावत्प्रमाणमाकाशं सिद्धिक्षेत्रमुच्यते । यत्रावगाहन्ते सिद्धा इति । विमल इति विविक्ते मलपटलवर्जिते । जन्मजरामरणेन रोगैश्च ज्वरादिभिर्विरहितः । १ लोकाग्रगतो
I
( २८८ ) ( वि० ) देहेति । देहत्रयनिर्मुक्त:- अपगताशेषदेहत्रयकरणपञ्चाशीतिकर्मा, तथा प्राप्य-लब्ध्वा ऋजुश्रेणिवीतिम् - अवक्रश्रेणिगतिं, विशिष्टा इतिर्वीतिरिति कृत्वा, अस्पर्शाम्अकृतप्रदेशान्तर संस्पर्शां, येनैव समयेन गच्छति येष्वेव चाकाशप्रदेशेषु समारूढो गच्छति न तत् समयान्तरं प्रदेशान्तरं वा स्पृशतीत्यर्थः । समयेनैकेनाविग्रहेण गत्वोर्ध्वम्-ऊर्ध्वगतिं तिर्यगादिव्यवच्छेदेन अप्रतिघो न केनचिदपि प्रतिहन्तुं शक्यते इति ॥ २८८ ॥
(२८९ ) ( वि० ) सिद्धीति । सिद्धिक्षेत्रे विमले - अशेषजन्मजरामरणरोगरहिते । स कीदृशः ?-जन्मजरामरणरोगैः प्रसिद्धैर्निर्मुक्तः स तथा । लोकाग्रगतो - लोकान्तप्राप्तः । त्यक्त्वाप्राप्य गत्वेति पूर्वक्रियात्रयस्योत्तरक्रियामाह-सिद्ध्यति - सिद्धो भवति साकारेणोपयोगेन-केवलज्ञानोपयोगेन । ततः परमुपयोगद्वयं सिद्धानामिति ॥ २८९ ॥
(२८८ ) ( अव०) - अवक्रश्रेणिगतिं, अविद्यमानस्पर्शां, अवक्रगत्या अप्रतिहतगतिः ॥२८८॥ (२८९ ) ( अव० ) – ज्ञानोपयोगेन वर्तमानः ततः परमुपयोगद्वयं सिद्धानामिति ॥ २८९॥