________________
१७६
प्रशमरतिप्रकरणम्
चरमे समये सङ्ख्यातीतान् विनिहत्य चरमकर्मांशान् । क्षपयति युगपत् कृत्स्नं वेद्यायुर्नामगोत्रगणम् ॥२८६॥ सर्वगतियोग्यसंसारमूलकरणानि सर्वभावीनि । औदारिकतैजसकार्मणानि सर्वात्मना त्यक्त्वा ॥२८७॥
(२८६ ) टीका- चरम इत्यादि । पश्चिमसमयेऽसङ्ख्येयान् विनिहन्ति शाटयति । चरमाः २पश्चिमाः कर्मांशाः कर्मभागास्तान् युगपत्क्षपयति । त एव कर्मांशा विशिष्यन्तेवेद्यायुर्नामगोत्रगणमिति । एषां कर्मणां येंऽशा इति तस्मिन् कृत्स्ने क्षपिते वेद्यादिगणे चरमकर्मांशाः क्षपिता एव भवन्तीति ॥ २८६॥
( २८७) टीका-ततश्च - सर्वगतीत्यादि । सर्वा गतयो नरकतिर्यङ्मानुष्यदेवाख्यास्तासां योग्यानि संसारमूलकरणानि संसारपरिभ्रमणप्रतिष्ठानि निमित्तानीत्यर्थः औदारिकादीनि, न खलु औदारिकादिभिर्विना सर्वगतयः प्राप्यन्ते । सर्वभावीनि इति सर्वत्र भवन्ति २इति नरकादिगतिषु शरीराणि औदारिकं तैजसं कार्मणं च क्वचिद् गौ क्वचिद्वैक्रियतैजसकार्मणानि । सर्वात्मना त्यक्त्वा सर्वेषामात्मा औदारिकादीनां यत्स्वरूपं तेन ४ सर्वस्वरूपेण त्यक्त्वा ॥२८७॥
(२८६) (वि०) अथ - चरम इति । चरमे समये - अन्त्यसमये सङ्ख्यातीतान्असङ्ख्यातान्, कान् ? - चरमकर्मांशान् - उत्तरप्रकृतीस्त्रयोदशसङ्ख्याः, किं ?-विनिहत्य-अपनीय ततो युगपद्-एककालं कृत्स्नं परिपूर्णं, किं ? -वेद्यायुर्नामगोत्रगणं क्षपयति ॥ २८६॥
(२८७ ) ( वि० ) साम्प्रतं यत्त्यक्त्वा सिद्धो यादृशीं च गतिं प्राप्तो यादृशं च तत् 'सिद्धिक्षेत्रं यादृशश्चासौ यथा च तस्योर्ध्वगतिरेव यादृशं च सुखं तस्य स्याद् एतत्सर्वमभिधातुकाम आह— सर्वेति। सर्वगतियोग्यश्चासौ संसारश्च सर्वगतियोग्यसंसारः तस्य मूलकरणानि - 'आद्यहेतवस्तानि तथा, किल एतेषु सत्सु सर्वगतयो बध्यन्ते । तथा सर्वान् भावान् - शुभाशुभादीन् भावयन्ति सर्वभावानि, यद्वा पाठान्तरतः सर्वत्र भवनशीलानि सर्वभावीनि । कान्येवंविधानीत्याह - औदारिकतैजसकार्मणानि प्रसिद्धानि सर्वात्मना त्यक्त्वा - विहायेति ॥ २८७॥
( २८६ ) ( अव० )—–—चरमकर्मांशानुत्तरप्रकृतीः त्रयोदशसङ्ख्या: विनिहत्यापनीय युगपदेककालम् ॥२८६॥
( २८७ ) ( अव० ) – सर्वगतियोग्यसंसारमूलहेतूनि । सर्वत्र भवनशीलानि । औदारिकादिशरीराणां यत्स्वरूपं तेन सर्वेण रहितः ॥२८७॥