________________
प्रशमरतिप्रकरणम्
ईषद्ह्रस्वाक्षरपञ्चकोगिरणमात्रतुल्यकालीयाम् । संयमवीर्याप्तबलः शैलेशीमेति गतलेश्यः ॥ २८४ ॥ पूर्वरचितं य तस्यां समय श्रेण्यामथ प्रकृतिशेषम् । समये समये क्षपयत्यसङ्ख्यगुणमुत्तरोत्तरतः ॥ २८५॥
१७५
(२८४) टीका - स व्युपरतक्रियानिवर्तिध्यानकाले शैलेश्यवस्थां यातीत्याहईषदित्यादि । ईषन्मनाग् ' ह्रस्वानां पञ्चानामक्षराणां 'कखगघङ' इत्येषामुच्चारणाकाल उद्गिरणमुच्चारणं तत्तुल्यकालीयां तावत्प्रमाणां शैलेशीमेति । संयमेनानुत्तरेण वीर्येण च प्राप्तबलः शैलेशीमेति विगतलेश्यः । शैलेश इव मेरुरिव निष्प्रकम्पो यस्यामवस्थायां भवति, साऽवस्था शैलेशीति स्त्रीलिङ्गशब्दः पृषोदरादिपाठात् संस्क्रियते । २शैलानामीशतया शैलानामीश्वरी सा शैलेश्यवस्थेति । विगता लेश्या भावाख्या यस्य स विगतलेश्यः । द्रव्यलेश्याभावाद्भावलेश्यानामसम्भवः ॥ २८४॥
( २८५ ) टीका-पूर्वरचितमित्यादि । प्रथममेव समुद्घातकाले रचितं व्यवस्थापितं समयश्रेण्यां समयपङ्क्तौ । प्रकृतिशेषं वेद्यनामगोत्रायुषां यदवशिष्टमास्ते तत्प्रकृतिशेषम् । प्रतिसमयं क्षपयन्नसङ्ख्येयगुणमुत्तरोत्तरेषु समयेषु ||२८५||
( २८४) (वि० ) कीदृशीमित्याह - ईषदिति । ईषत् - मनाक् ह्रस्वाक्षरपञ्चकस्योद्गिरणंभणनं तस्य मात्रं-प्रमाणं तेन तुल्यकालीया तां-समानकालभवां संयमवीर्येण-'संवरसामर्थ्येनावाप्तबलःप्राप्तसामर्थ्यः शैलेश - परमनिष्ठाशब्दवाच्यामेति-गच्छति । स कीदृशः केवली ? - विगतलेश्यो - लेश्यारहित इति ॥ २८४॥
( २८५ ) ( वि० ) पूर्वेति । पूर्वं पुरा रचितं - स्थापितं पूर्वरचितं च तस्यां - शैलेश्यवस्थायां समयश्रेण्यामन्तर्मुहूर्तगतसमयप्रमाणायाम् अथ - अनन्तरं प्रकृतिशेषं समये समये क्षपयन्-नाशयन् असङ्ख्यगुणम्-असङ्ख्यातगुणं उत्तरोत्तरत - उत्तरोत्तरेषु समयेष्विति ॥ २८५।।
(२८४) (अव० )- १ ईषन्मनाक् कखगघङतुल्यं तावत्प्रमाणं । अनुत्तरेण संयमवीर्येण च प्राप्तबलः । मेरुरिव निःप्रकम्पोऽस्यामवस्थायां भवति ॥ २८४॥
( २८५ ) ( अव० )—–'प्रथममेव समुद्घातकाले । यत् प्रकृतिशेषं = अवस्थापितं गोत्रनामवेद्यायुषो यदवशिष्टमास्ते, तत्प्रकृतिशेषं संयमश्रेण्यां अन्तर्मुहूर्तगतसमयप्रमाणायां संस्थाप्य, समये समये क्षपयन् । असङ्ख्यातगुणमुत्तरोत्तरेषु समयेषु ॥ २८५॥