________________
१७४
प्रशमरतिप्रकरणम्
चरमभवे संस्थानं यादृग् यस्योच्छ्रयप्रमाणं च । तस्मात् त्रिभागहीनावगाहसंस्थानपरिणाहः ॥ २८२॥ सोऽथ मनोवागुच्छ्वासकाययोगक्रियार्थविनिवृत्तः । अपरिमितनिर्जरात्मा संसारमहार्णवोत्तीर्णः ॥ २८३ ॥
परेण ध्यायति । विगतक्रियमनिवर्तिध्यानं निरुद्धयोगः व्युपरतसकलक्रियमनिवर्तिध्यायन्न ननुत्तर' (ध्यानमनुत्तरं ) ध्यायन् चरमकर्मांशं क्षपयति ॥२८१॥
( २८२) टीका-चरमभव इत्यादि । उक्त एवार्थोऽस्याः कारिकायाः पुनस्तथाप्युच्यते । चरमभवे पश्चिमजन्मनि । संस्थानमाकारः । यादृग् यस्य सिद्धिमुपजिगमिषोः संस्थानं शरीरोच्छ्राय एव प्रमाणं । तस्य त्रिभागहान्या संस्थानपरिणाहं करोति ॥ २८२॥
(२८३) टीका-अथ स भगवान् कीदृगवस्थानिरुद्धेषु ' योगेषु भवतीत्याहसोऽथेत्यादि। स भगवान् केवली वाक्काय मनोच्छ्वासयोग क्रियार्थाद्विनिवृत्तः निरुद्धसकलक्रियः। अपरिमितनिर्जर आत्मा यस्य बहुकर्मक्षपणयुक्तः संसारमहार्णवादुत्तीर्ण एव ॥ २८३ ॥
विगतक्रियं-अपगतक्रियमनिवर्ति तु निवृत्तिरहितं पुनरनुत्तरं ध्यायति परेण - उपरीति ॥ २८९ ॥
(२८२) (वि०) चरमेति । चरमभवे संस्थानं यादृग् यस्य केवलिन उच्छ्रयप्रमाणं च यत् तस्मादुच्छ्रयप्रमाणात् संस्थानप्रमाणाच्च त्रिभागहीनौ - त्रिभागशून्यावगाहस्य - शरीरस्य संस्थानपरिणाहौ-संस्थित्युच्छ्रायौ यस्य स तथा । योगनिरोधकाल एवंविधप्रमाणः स्यादिति ॥२८२॥
(२८३) (वि०) सोऽथेति । अथ योगनिरोधानन्तरं स केवली मनसो वाचः उच्छासस्य कायस्य च ये योगा याश्च क्रियाः ये चार्थाः - प्रयोजनानि एतेषां यथायोगं समासः तेभ्यो विनिवृत्तो, योगत्रयसाध्यक्रियाविकलो यः स तथा । अपरिमितनिर्जरात्मा - अन्तर्मुहूर्तमात्रेणैव पञ्चाशीतिकर्मक्षयकारी । संसारमहार्णवोत्तीर्णः - अपगताशेषसंसारभयः सन् । शैलेशीमेतीति वक्ष्यमाणेन सम्बन्धः ||२८३|| इति योगनिरोधाधिकारः ॥२१॥
क्रिया
क्रियं निरुद्धयोगं निवृत्तिरहितम् उत्तरप्रधानं चरमकर्मांशान् क्षपयति ॥२८१॥
(२८२ ) ( अव० ) - १ परिणाहो विशालता ॥ २८२ ॥
(२८३) (अव० )- १ निरुद्धसकलक्षयः । मनसो वाच उच्छ्वासकायस्य च ये योगाश्च चार्था - प्रयोजनानि तेभ्यो विनिवृत्तः निरुद्धसकलमार्गः ॥२८३॥