________________
प्रशमरतिप्रकरणम्
१७३
सूक्ष्मक्रियमप्रतिपाति काययोगोपगतस्ततो ध्यात्वा ।
विगतक्रियमनिवर्तित्वमुत्तरं ध्यायति परेण ॥२८१॥ इत्यादि । द्वीन्द्रियस्य प्रथमसमयपर्याप्तकस्य वाक्पर्याप्तिकरणं यत्तद्विघटयति । तस्य जघन्यवाग्योगो यः साधारणजीवस्य च प्रथमसमयपर्याप्तकस्य यदुच्छास पर्याप्तिकरणं ताभ्यां वागुच्छासौ अधः कृत्वा तावन्निरुणद्ध्यसङ्ख्येयगुणहान्या, यावत्समस्तवाग्योगो निरुद्धः उच्छवासनिःश्वासपर्याप्तिकरणं च । तद्वदिति यथा मनो निरुद्धं तथा तद्वद्वागुच्छ्वासावपि निरुणद्धीत्यर्थः । तत्र मनोवाचोनिरुद्धयोः काययोगनिरोधं करोति । पनक उल्लिजीवस्तस्य प्रथमसमयपर्याप्तकस्य य: काययोगो जघन्यस्ततोऽप्यधोऽसङ्ख्येयगुणहान्या निरावरणवीर्यत्वात्सकलं काययोगं निरुणद्धि ॥२८०॥
(२८१) टीका-काययोगनिरोधकाले च–सूक्ष्मक्रियमित्यादि । ध्यानं सूक्ष्मक्रियमप्रतिपाति 'शुक्लं काययोगस्थित एव ध्यायति । तदैव च शैलेशी त्रिभागहीनमात्मप्रदेशराशि करोति । किमर्थमिति ? वेद्यानि शरीरे निर्वतितानि मुखश्रवणनासिकादिच्छिद्राणि तत्परिपूरणार्थं घनीकरोति आत्मानं त्रिभागहीनावगाहसंस्थानपरिणाहं करोतीत्यर्थः । ततश्चतुर्थं शुक्लध्यानभेदं
कर्मतापन्नौ अधः कृत्वा जयति-निरुणद्धि तद्वत्-पूर्वोक्तमनोयोगवत् । तथा पनकस्य-उल्लिविशेषस्य जघन्ययोगिनः पर्याप्तकस्याधः-अधस्तादसङ्ख्यातगुणहीनमित्यक्षरार्थः । तात्पर्यं चेदम्-द्वीन्द्रियस्य साधारणस्य पनकस्य च त्रयो वागुच्छ्वासकाययोगाः सर्वजघन्याः, तेभ्यः प्रत्येकमसङ्ख्यातगुणहीनां वाचं असङ्ख्यातगुणहीनमुच्छासमसङ्ख्यातगुणहीनं काययोगं बादरं समये समये रुन्धन् केवली चतुव॑न्तर्मुहूर्तेषु गतेषु विश्रान्तिकृद्-अन्तर्मुहूर्तचतुष्टयसमन्वितेषु प्रथमं मनोयोगं बादरम् १ एवं बादरं वाग्योगं २ तत उच्छासं ३ ततः काययोगम् ४ अपान्तराले एकस्य २ अन्तर्मुहूर्तं विश्राम्येत्यष्टावन्तर्मुहूर्ता इति ।।२८०॥
(२८१) (वि०) सूक्ष्मेति । ततो बादरे काययोगे निरुद्धे सति काययोगोपगतस्ततः सूक्ष्मक्रियया काययोगवर्ती केवली 'सूक्ष्ममनोयोगं सूक्ष्मवाग्योगं निरुन्धन् अन्तर्मुहूर्तद्वयेन सूक्ष्मकाययोगं प्रतिसमयं निरुन्धन्, न चाद्यापि तस्य सर्वथा निरोधोऽजनि । एवंविधकाले सूक्ष्मक्रियमप्रतिपाति ध्यानं ध्यायति । ध्यात्वा ततः सूक्ष्मकाययोगेऽपि निरुद्धे सति सर्वथा निरुणद्धीत्यर्थः । असङ्ख्येयगुणहान्या । तात्पर्य चेदं द्वीन्द्रियस्य साधारणस्य पनकस्य त्रयः वागुच्छवास २ काययोगा: ३ सर्वजघन्यास्तेभ्यः प्रत्येकमसङ्ख्यातगुणहीनां वाचम् । उच्छवासं च बादरकाययोगं च निरुणद्धि ॥२८०॥
(२८१) (अव०)-'सूक्ष्मक्रियमप्रतिपाति ध्यानं काययोगस्थित एव ध्यायति विगत