________________
१७२
प्रशमरतिप्रकरणम्
पञ्चेन्द्रियोऽथ सञ्ज्ञी य: पर्याप्तो जघन्ययोगी स्यात् । निरुणद्धि मनोयोगं ततोऽप्यसङ्ख्यातगुणहीनम् ॥२७९॥ द्वीन्द्रियसाधारणयोर्वागुच्छासावधो जयति तद्वत् ।
पनकस्य काययोगं जघन्यपर्याप्तकस्याधः ॥ २८० ॥ समुद्घातान्निवृत्तः । तदनन्तरं मनोवाक्काययोगी भगवान् योगत्रयवर्तीति । अथ मनोयोगः केवलिनः कुत इत्युच्यते-यदि नामानुत्तरो मनसा तत्रस्थ एव पृच्छेत्, अन्यो वा देवो मनुष्यो वा, ततो भगवान् मनोद्रव्याण्यादाय मनः पर्याप्तिकरणेन तत्प्रश्नव्याकरणं करोति सत्यमनोयोगेन असत्यामृषामनोयोगेन वा व्याकरोति । तथा वाग्योगोऽपि भगवतः सत्यः असत्यामृषारूपो वा। काययोगस्त्वौदारिकादिगमनादिक्रियासाधनः । यतियोग्ययोगयोक्तेत्यनेनैतत्प्रतिपादितम् । तस्यामवस्थायां स यतिः केवली योग्यमुचितं योगं सत्यरूपम् असत्यमृषारूपं वा युङ्क्ते ॥२७८॥
( २७९ ) टीका–सम्प्रति तान् योगान्निरोद्धुमिच्छन्नमुना प्रकारेण निरुणद्धि-पञ्चेन्द्रिय इति । सयोगस्य सिद्धिर्नास्तीति योगोऽवश्यं निरोद्धव्यः । तत्र प्रथमं मनोयोग मापेक्ष (क्षेप) कं निरुणद्धि। मनःपर्याप्त्याख्यं करणशरीरप्रतिबद्धं, येन मनोद्रव्यग्रहणं करोति । तद्वियोजनार्थमनन्तवीर्यः सन् मनोविषयं निरुन्धन् निरुणद्धि । पूर्वं पञ्चेन्द्रियस्य सञ्ज्ञिनः मन: पर्याप्तिकरणयुक्तस्य प्रथमसमयपर्याप्तकस्य जघन्ययोगस्य मनोद्रव्यवर्गणास्थानानि निरुणद्धि स्वात्मनि । ततोऽपि ३ तद्ग्रहणहान्या असङ्ख्येयगुणान्यवस्थानानि निरुणद्धि । पश्चादमनस्को भवति मन: पर्याप्तिरहित इत्यर्थः॥२७९॥
(२८०) टीका - ततो वाग्योगं निरुणद्धि तन्निरूपणायाह - द्वीन्द्रियसाधारणयोः फलकादेः प्रत्यर्पणमुपदेशादेर्योक्ता-व्यापारयिता यतियोग्ययोगयोक्ता। योगनिरोधमुपैति - गच्छति ॥२७८॥ (२७९) (वि०) येन क्रमेण योगनिरोधं करोति तमाह-पञ्चेति । पञ्चेन्द्रियोऽथ सञ्ज्ञी य: पर्याप्तः सन् जघन्ययोगी स्यात्-सर्वस्तोकयोगो भवेत् ततोऽप्यसङ्ख्यातगुणहीनं मनोयोगं निरुणद्धीति ।।२७९।। ( २८० ) ( वि० ) द्वीन्द्रियेति । द्वीन्द्रियश्च साधारणश्च तौ तथा तयोर्वागुच्छ्वासौ - भाषाऽऽनपानौ
(२७९ ) (अव० )- १ तत्र प्रथमं मनोयोगं मनः पर्याप्तिजनितव्यापारं शरीरप्रतिबद्धं मनोद्रव्यग्राहकं, तद्वियोजनार्थं पञ्चेन्द्रियस्य सञ्ज्ञिनो मनःपर्याप्त्या प्रथमसमयपर्याप्तकस्य यः सर्वजघन्यमनोयोगो मनोवर्गणाग्रहणशक्तेर्व्यापारः तस्मात्स्वात्मनि असङ्ख्येयगुणहान्या प्रतिसमयं निरुन्धन् सकलं निरुणद्धि, मनःपर्याप्त्या रहितो भवति ॥ २७९॥
(२८०) (अव० )—–'अधस्तनोऽनन्तरम् । यथा मनो रुद्धम् तथा वागुच्छवासाव