________________
प्रशमरतिप्रकरणम्
१७१
औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥२७६॥ कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ॥२७७॥ स समुद्घातनिवृत्तोऽथ मनोवाक्काययोगवान् भगवान् ।
यतियोग्ययोगयोक्ता योगनिरोधं मुनिरुपैति ॥२७८॥ समयैविपरीतं संहरति । पञ्चमे समये मन्थानान्तराण्युपसंहरति । षष्ठे समये 'मन्थानं संहरति । सप्तमे समये कपाटम् । अष्टमे समये दण्डमुपसंहृत्य शरीरस्थ एव भवति ॥२७५॥
(२७६) टीका-अथ कस्मिन्समये को योगः समुद्घातकाले भवतीत्याहऔदारिकेत्यादि । प्रथमेऽष्टमे च समये औदारिक एव योगो भवति शरीरस्थत्वात् । कपाटोपसंहरणे सप्तमः । मन्थनसंहरणे षष्ठः । कपाटकरणे द्वितीयः । एतेषु त्रिष्वपि समयेषु कार्मणव्यतिमिश्र औदारिकयोगो भवति ॥२७६॥ ।
(२७७) टीका-कार्मणेत्यादि । मन्थानान्तरपूरणसमयश्चतुर्थः । मन्थानान्तरसंहरणसमयः पञ्चमः । मन्थानकरणसमयस्तृतीयः । समयत्रयेऽप्यस्मिन् कार्मणशरीरयोगः । तत्र च नियमेनैव जीवो भवत्यनाहारकः ॥२७७।।
(२७८) टीका-स समुद्घातेत्यादि । स खलु केवली समीकृतचतुष्कर्मा । ततः संहरति । ततोऽष्टमे दण्डं, जीवप्रदेशानिति ॥२७५॥
__ (२७६) (वि०) औदारिकेति । औदारिकप्रयोक्ता-औदारिकशरीरव्यापारकः प्रथमाष्टमसमययोः-दण्डकरणसंहारलक्षणयोरसौ केवली इष्टः । मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेष्विति ॥२७६।।
(२७७ ) (वि०) कार्मणेति । कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च, त्रिष्वपि पूर्वोक्तस्वरूपेषु । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात्, कार्मणशरीरव्यापारात्, 'तत्र अनाहारकत्वं विग्गहगइमावन्ना (विग्रहगतिमापन्नाः) इति गाथया सिद्धम् इति समुद्घातः ॥२७७॥ (अधि० २०)
(२७८) (वि०) स इति । स मुनिः समद्धातनिवत्तोऽथ-अनन्तरं मनोवाकाययोगवानकरण-त्रयव्यापारवान् भगवान्-पूज्यः । यतियोग्यस्य-साधुजनार्हस्य योगस्य-व्यापारस्यानीतपीठ
(२७६ ) (अव०)-औदारिकशरीरयापकः प्रथमाष्टमसमययोर्दण्डकरणसंहारलक्षणयोः कथितोऽसौ केवली ॥२७६॥
(२७८) (अव०)-स केवली करणत्रयशुद्धयोगवान् उचितं सत्यं यतियोग्यं योगं व्यापारं युङ्क्ते व्यापारयति २निरोधं करोति ॥२७८॥