________________
१७०
प्रशमरतिप्रकरणम्
दण्डं प्रथमे समये कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये लोकव्यापी चतुर्थे तु ॥२७४॥ संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे ।
सप्तमके तु कपाटं संहरति ततोऽष्टमे दण्डम् ॥२७५॥ गोत्राख्यम् । अतिरिक्तम् अधिकं भवति । स केवली वेद्यादित्रयमायुषा सह समीकर्तुं 'तुल्यतामेतुं समुद्घातं याति । गत्वा च यावत्प्रमाणमायुस्तावत्प्रमाणानि वेद्यनामगोत्राणि विदधाति । सम्यगुत्कृष्टं हननं गमनं समुद्घात: । नातः परं गमनमस्ति, लोकाबहिर्गमनाभावात् ॥२७३॥
(२७४) टीका-तस्य चायं विधिरुच्यते-दण्डमित्यादि । स्वशरीरप्रमाणदण्डंबाहल्येनोर्ध्वमधश्चात्मप्रदेशान् विक्षिपत्यालोकान्तात् । तत्र प्रथमसमये दण्डम् । द्वितीयसमये तु तदेव दण्डं कपाटीकरोति दक्षिणोत्तरतो विस्तारयत्यालोकान्तात् । एवं तृतीयसमये तदेव कपाटं मन्थानं करोति ३पूर्वापरयोविस्तारयत्यालोकान्तात् । एवं चतुर्थसमये मन्थानान्तराणि पूरयित्वा चतुर्थे तु लोकव्यापी भवति । एवमात्मप्रदेशेषु निरावरणेन वीर्येण विरचितेषु कर्म वेद्यादित्रयमायुषा समं करोति । आयुष्कं तु नापवर्तते, अनपवर्तित्वादेवेत्युक्तम् । आत्मप्रदेशविस्तारणाच्च तद्वेद्यादिकर्म अतिरिक्तं क्षयं गच्छदायुषा सह समीकरोति ॥२७४।।
(२७५) टीका-संहरतीति । एवं चतुभिः समयैर्लोकं क्रमेण व्याप्य चतुभिरेव
युषोऽतिरिक्ततरं-अतिशयेन समधिकं स केवली समुद्धातं वक्ष्यमाणं भगवानथ गच्छति-करोति' तस्य-आयुषः समीकर्तुं तत्समीकर्तुम् । त्रीण्यपि कर्माणीति ॥२७३॥
(२७४) (वि०) इति श्रेणिफलप्रतिपादनमार्यापञ्चदशकेन कृतम् । साम्प्रतं केवलिसमुद्घातं योगनिरोधं तत्कालं कर्मक्षयं च प्रतिपादयन्नाह-यस्येति । दण्डं ऊर्ध्वाधश्चतुर्दशरज्ज्वात्मकं बाहल्यतः शरीरमानं प्रथमसमये-आद्यसमये करोति । कपाटमिव कपाटं पूर्वापरलोकान्तव्यापिनं अथ चोत्तरे तथा समये करोति । मन्थानं दक्षिणोत्तरलोकान्तव्यापिनम् अथ तृतीये समये । लोकव्यापी समस्तनिष्कुटव्यापनात् चतुर्थे तु समये भवति केवलीति ॥२७४।।
(२७५) (वि०) संहरतीति । संहरति-सङ्क्षिपति पञ्चमे त्वन्तराणि, निष्कुटगतजीवप्रदेशानित्यर्थः । मन्थानमथ पुनः षष्ठे, दक्षिणोत्तरलोकान्तगतजीवप्रदेशान् । सप्तमके तु कपाटं
(२७३ ) (अव०)-१अतिरिक्ततरम् अधिकतरम् ॥२७३॥
(२७४) (अव० )-दण्डमूर्ध्वाधश्चतुर्दशरज्ज्वात्मकं बाहल्यतः शरीरमानं कपाटं पूर्वापरलोकान्तव्यापिनं मन्थानं दक्षिणोत्तरलोकान्तव्यापिनं समस्तनिष्कुटव्यापनाल्लोकव्यापी ॥२७४॥
(२७५) (अव०)-अन्तराणि निष्कुटगतजीवप्रदेशान् ॥२७५॥