________________
प्रशमरतिप्रकरणम्
१६९
तेनाभिन्नं चरमभवायुर्दुर्भेदमनपवर्तित्वात् । तदुपग्रहं च वेद्यं तत्तुल्ये नामगोत्रे च ॥२७२॥ यस्य पुनः केवलिनः कर्म भवत्यायुषोऽतिरिक्ततरम् ।
स समुद्घातं भगवानथ गच्छति तत् समीकर्तुम् ॥२७३॥ घटिकाद्वयं लब्ध-केवलज्ञानः सन् विहरति भव्यसत्त्वान् प्रतिबोधयन् । अथवा देशोनां पूर्वकोटिं विहरति, देशोऽष्टौ वर्षाणि तदूनाम् पूर्वकोट्यायुष्को यः पुरुषः सोऽष्टासु वर्षेष्वतीतेषु 'प्रव्राजितः । प्रतिपन्नचारित्रस्य च केवलं केवलज्ञानमुदपादीति ॥२७१॥
(२७२) टीका-तेनाभिन्नमित्यादि । तेनायुषा अभिन्नं सदृशमित्यर्थः । चरमे भवे पश्चिमे भवे आयुः पर्यन्तजन्मनि दुर्भेदमित्यभेद्यमेव अध्यवसायनिमित्तादिभिः सप्तभिः कारणैः कस्माद् ? अनपवर्तित्वात् चरमभवायुषोऽपवर्तनं नास्ति, ततश्च तस्यायुषो यत्प्रमाणं यावती स्थितिः तावत्स्थितिकानि वेद्यनामगोत्राणि तैरभिन्नं सदृशमायुरिति । अथवा न तेनायुषा सह भिन्नं वेद्यादित्रयं सदृशमेवेत्यर्थः । तेन चायुषा उपगृहीतं वेद्यं नामगोत्रे च सत्यायुषि तेषां सम्भवादिति ॥२७२।।
(२७३) टीका-यस्य पुनरित्यादि । यस्य केवलिनश्चरमायुष्कात् । कर्म वेद्यनाम
एवंविधः सन् विहरति-भ्रमति । मुहूर्तकालं जघन्येन देशोनां पूर्वकोटि वा उत्कृष्टत इति ॥२७१।।
(२७२) (वि०) तेनेति । चरमभवायु:-चरमभवयोग्यं आयुः अभिन्नं क्षीरोदकवत् संस्थितं केवलिना दुर्भेद-भेत्तुमशक्यम्-अपनेतुमशक्यम् । हेतुमाह-अनपवर्तित्वाद्-अनपवर्तनीयत्वात् । तथा वेद्यं च कीदृशं? तेन-आयुषोपगृह्यते-उपष्टभ्यते तदुपग्रह, अनपवर्तित्वात् । 'तेनायुषा तुल्ये-तुल्यके नामगोत्रे चापि । स एव हेतुरिति ॥२७२।।
(२७३) (वि०) ननु ज्ञानोत्पत्त्यनन्तरमेव किं न मोक्षं याति ?, यावता एतावन्तं कालं विहरति ?, उच्यते-यस्येति । यस्य पुनः केवलिनः कर्म-कर्मत्रयं वेद्यनामगोत्राख्यं भवत्या
स्थापना
॥ इति श्रेण्यधिकारः ॥१९॥
(२७२) (अव०) तेनायुषाऽभिन्नं सदृशं क्षीरोदकवत् संस्थितचरमभवयोग्यमायुः केवलिना दुर्भेदमनपवर्तनीयत्वात् । तथा 'वेद्यं वेदनीयं कर्म, तदुपग्रहं तेनायुषोपगृह्यतेउपष्टभ्यते । तदुपग्रहमनपवर्तनीयत्वात्-आयुःकर्मणा सह वेद्यत्वात् ॥२७२॥