________________
१६८
प्रशमरतिप्रकरणम्
कात्स्यल्लोकालोके व्यतीतसाम्प्रतभविष्यतः कालान् । द्रव्यगुणपर्यायाणां ज्ञाता दृष्टा च सर्वार्थैः ॥२७०॥ क्षीणचतुष्कर्मांशो वेद्यायुर्नामगोत्रवेदयिता । विहरति मुहूर्तकालं देशोनां पूर्वकोटिं वा ॥ २७१॥
I
(२७० ) टीका - कात्स्यदित्यादि । लोकेऽलोके च कृत्स्नवस्तुग्राहित्वात् कृत्स्नं सकलं तद्भावः कात्र्म्यं तस्मात्कात्स्र्न्यात्, सकलवस्तुपरिच्छेदित्वात्। व्यतीतोऽतिक्रान्तः, साम्प्रतो वर्तमानः । भविष्यन्नागामी एतान् कालान् । द्रव्यगुणपर्यायाणां द्रव्याणां गुणानां पर्यायाणां च सम्बन्धिनः कालानुत्पत्तिस्थितिविनाशाख्यान्न द्रव्यादिव्यतिरिक्तकालोऽस्तीत्यमुं पक्षमाश्रित्य १ज्ञातपरिज्ञानशीलः दर्शनशीलश्च । तत्र कालो लोक एव कियत्यपि, अन्यत्र नास्ति । सर्वार्थैरिति सर्वप्रकारैः २तान् ज्ञाता द्रष्टा च । यत्र तु नास्ति कालद्रव्यं तत्र द्रव्यगुणपर्याणामेव द्रष्टा ज्ञाता च सर्वाकारैरिति । अथवा लोके अलोके च ये द्रव्यगुणपर्यायास्तेषां व्यतीतसाम्प्रतभविष्यतः कालान् कार्त्स्न्येन ज्ञाता द्रष्टा च सर्वाकारैरिति ॥२७०॥
(२७१) टीका - क्षीणचतुरित्यादि । क्षीणाश्चतुर्णां कर्मणामंशा भागा यस्य स क्षीणचतुःकर्मांशः क्षपितमोहज्ञानदर्शनान्तरायकर्मचतुष्टयः । वेदनीयायुष्कनामगोत्रवेदयितेति वेदनीयादीनां चतुर्णां भवधारणीयानां कर्मणामनुभविता । विहरति पर्यटति । मुहूर्तकालं
त्वात् । तथा अप्रतिहतं सदा प्रतिघातकाभावात् । सम्प्राप्तः - प्राप्तवान् इति ॥२६९॥
( २७० ) ( वि० ) कात्स्यदिति । लोकश्चालोकश्च लोकालोकं तत्र । कीदृशे ? - कृत्स्नेपरिपूर्णे । व्यतीतसाम्प्रतभविष्यतः कालान्- कालत्रयं, आश्रित्येति शेषः । द्रव्यगुणपर्यायाणां कृतद्वन्द्वानां, तत्र गुणपर्यायवद् द्रव्यं, सहभाविनो गुणाः, क्रमभाविनः पर्याया इत्यादिलक्षणभाजां सतां सचेतनाचेतनानाम् । ज्ञाता विशेषेण । द्रष्टा सामान्येन । सर्वार्थै:- सर्वप्रकारैर्यथाऽन्तस्तथा बहिः यथा बहिस्तथाऽन्तः इत्यादिकैरिति ॥२७०॥
(२७१) (वि०) तस्मिन् केवलज्ञाने सति कीदृशः स्यादित्याह - क्षीणेति । क्षीणचतुष्कर्मांशः-अपगताशेषघातिकर्मा । तथा वेद्यायुर्नामगोत्रवेदयिता-भवोपग्राहिकर्मणामनुभविता । परिपूर्णत्वेनोत्पत्तेः, सम्पूर्णं सकलज्ञेयग्राहित्वात् । अप्रतिहतं सदापि प्रतिघातकाभावात् ॥२६९॥ ( २७० ) ( अव० )–कास्र्त्स्न्ये परिपूर्णे लोकालोके कृत्स्नलोकवस्तुपरिच्छेदित्वात् । गुणपर्यायवद् द्रव्यं, सहभाविनो गुणाः, क्रमभाविनः पर्यायाः । सर्वार्थैः सर्वप्रकारैः ॥२७०॥ ( २७१ ) ( अव० ) - क्षीणघातिकर्मचतुष्कः भवोपग्राहिकर्मचतुष्कः 'वेदयिता जघन्येन घटिकाद्वयम् ॥२७१॥