________________
प्रशमरतिप्रकरणम्
छद्मस्थवीतरागः कालं सोऽन्तर्मुहूर्तमथ भूत्वा । युगपद् विविधावरणान्तरायकर्मक्षयमवाप्य ॥ २६८॥ शाश्वतमनन्तमनतिशयमनुपममनुत्तरं निरवशेषम् । सम्पूर्णमप्रतिहतं सम्प्राप्तः केवलं ज्ञानम् ॥ २६९॥
१६७
मस्तकेत्यादि । तालतः शिरसि सूचिर्या २ प्ररोहति । तद्विनाशे च तालतरोरवश्यंभावी ध्रुवो नाशः । तद्वत्तथा शेषकर्मणां विनाशः क्षयोऽष्टाविंशतिविधमोहनीयक्षये ध्रुवो नित्य इत्यर्थः ॥२६७॥
(२६८) टीका-छद्मस्थेत्यादि । छद्म आवरणं तत्र स्थितः छद्मस्थः, वीतरागश्च क्षपितकषायत्वात्। अन्तर्मुहूर्तं घटिकाद्वयाभ्यन्तरकालं वीतरागो भूत्वा । युगपत्समकमेव । विविधं ज्ञानावरणं मतिज्ञानादिभेदम् । दर्शनावरणं चतुर्विधम् । २विविधमित्यनेकरूपम् । तथान्तरायं दानान्तरायादिप्रकारम् । इत्थं कर्मक्षयमवाप्य ॥ २६८ ॥
(२६९) टीका - किं प्राप्तवानित्याह - शाश्वतमित्यादि । शाश्वतं लब्धात्मलाभम् । सर्वकालभावि 'तदेव भावयति - अनन्तमपर्यवसानम् । २अविद्यमानातिशयम् अनतिशयं, न ततः ४परमतिशयोऽन्योऽस्ति न तत्केनचिदतिशय्यत इत्यर्थः । अविद्यमानोपममनुपमं, तत्सदृशस्याभावात् । अविद्यमानमुत्तरं ज्ञानं यस्य तदनुत्तरम् । निरवशेषमात्मनः स्वरूपं सम्पूर्णं, सकलज्ञेयग्राहित्वात् । अविद्यमानप्रतिघातमप्रतिहतं सर्वतः पृथ्वीसमुद्रादावपि न प्रतिहन्यते । सम्प्राप्तः प्राप्तवानेवंविधं केवलज्ञानम् ॥२६९॥
मस्तकेति। भवति । कोऽसौ ? - ध्रुवो नाशः । कस्य ? - तालस्य - वृक्षविशेषस्य । कुतः ?मस्तकसूचिविनाशात् । तद्वत् तथा । कर्मविनाशो मोहनीयक्षये भवति रनित्यमिति ॥ २६७॥
(२६८ ) (वि०) छद्मस्थेति । छद्मस्थवीतरागः - क्षीणमोहः सोऽन्तमुहूर्तकालं यावदथ भूत्वा - स्थित्वा युगपद् - एककालं द्विविधावरणान्तरायकर्मणां ज्ञानदर्शनावरणान्तरायाख्यानां पञ्चचतुःपञ्चप्रभेदानां क्षयस्तमवाप्येति ॥ २६८ ॥
(२६९) (वि० ) इत्थं कर्मक्षयमवाप्य किं प्राप्तवानित्याह - शाश्वतमिति । 'सम्प्राप्तः केवलं ज्ञानमिति सम्बन्धः । कीदृशं केवलज्ञानम् ? - शाश्वतं - लब्धात्मलाभं सत् सर्वकालभावि । तथा अनन्तम्-अपर्यवसानम् । तथा अनतिशयम् - अविद्यमानातिशयम् । तथाऽनुपमम्-अविद्यमानोपमम् । तथा अनुत्तरम् - अविद्यमानमुत्तरम् । तथा निरवशेषं परिपूर्णत्वेनोपपत्तेः । तथा परिपूर्णं सकलज्ञेयग्राहि
(२६८ ) ( अव० )–क्षपितकषायत्वात् । अन्तर्मुहूर्तकालं यावद्भूत्वा स्थित्वा । युगपदेककालं ज्ञानावरण ५ दर्शनावरण ४ अन्तरायाणां ५ क्षयमाप्य ॥२६८॥
(२६९) (अव० )—–'शाश्वतमनवरतभवनशीलत्वात् । अनन्तं क्षयाभावात् । तस्यातिशयितुमशक्यत्वात् । अनुपममपगतोपमानत्वात् । अनुत्तरमविद्यमानोत्तरत्वात् । निरवशेषं