________________
१६६
प्रशमरतिप्रकरणम्
क्षपकश्रेणिमुगपतः स समर्थः सर्वकर्मिणां कर्म । क्षपयितुमेको यदि कर्मसङ्क्रमः स्यात् परकृतस्य ॥२६५॥ परकृतकर्मणि यस्मान्न क्रामति सङ्क्रमो विभागो वा । तस्मात् सत्त्वानां कर्म यस्य यत्तेन तद्वेद्यम् ॥२६६॥ मस्तकसूचिविनाशात्तालस्य यथा ध्रुवो भवति नाशः । तद्वत् कर्मविनाशो हि मोहनीयक्षये नित्यम् ॥२६७॥
(२६५) टीका-स खलु ज्ञानानल किं करोतीत्याह-क्षपकश्रेणिमित्यादि । क्षपकश्रेणिमनुप्राप्तः परिदहन् कर्माणि ज्ञा(ध्या)नानलः स समर्थः शक्तः । २सर्वकर्मिणां सर्वेषां संसारिणां कर्मवतां कर्मभाजां यत्कर्म । तेषु व्यवस्थितं पुञ्जीकृतं तत्क्षपयितुमेकोऽसहायः । यदि कर्मणः परकृतस्य तस्य तस्मिन् क्षपकश्रेणिस्थे सङ्क्रमः स्यात् स तु नास्ति, तस्मात्सामर्थ्यमात्रमिदं तस्य वर्ण्यते ३ज्ञानानलस्य ॥२६५।।
(२६६) टीका-एतदेव स्पष्टयन्नाह-परकृतकर्मणीत्यादि । परेण कृतं कर्म तस्मिन् परकृतकर्मणि विषये । यस्मान्नास्ति सङ्क्रमः १सङ्क्रान्तिः । अन्येन कृतं यत्कर्म कृतमस्तीति तदन्यत्र नरे सङ्क्रामति न सङ्क्रान्तिर्भवति । सर्वस्य कर्मणः सङ्क्रमो मा ४भूदेकदेशस्य भविष्यतीति नेत्याह-विभागो वा। नाप्येकदेशो विभागः सङ्क्रामतीत्यर्थः कृतनाशाकृताभ्यागमप्रसङ्गात् । तस्मात्सत्त्वानां प्राणिनां यस्य यत्कर्म प्राणिनस्तेनैव तद्वेद्यमनुभवनीयमिति । अथवा न क्रामति न क्रमते, न भवति सङ्क्रान्तिरिति ॥२६६।।
(२६७) टीका-मोहनीयकर्मक्षयात्? अवशेषकर्मक्षयोऽवश्यंभावीति दर्शयति__ (२६५) (वि०) क्षपकेति । तथा क्षपकश्रेणिपरिगत:-क्षपकश्रेणिसंस्थितः । शेषं योजितमेव । अयमत्र भावार्थ:-स क्षीणमोहो ध्यानानलेनात्मीयं कर्म दग्ध्वा 'परकीयमपि दहेत् यदि कर्मसङ्क्रमः स्यादिति ॥२६५।।
(२६६) (वि०) न चैतदेवं, यतः-परकृतेति । न क्रामति सङ्क्रमः-समस्तकर्मप्रवेशो यस्मात्-कारणात् । क्व?-परकृतकर्मणि विषये । अथ सामस्त्येन मा सङ्क्रामतु, एकदेशेन सङ्क्रमः स्याद्, अत आह-विभागो वा न क्रामति-एकदेशेनापि न क्रामति, तस्मात् सत्त्वानां कर्म यस्य यत् तेन तद्वेद्यं, सर्वेषां प्राणिनां मध्ये यद् येन जीवेन बद्धं तत् तेन वेद्यते ॥२६६।।
(२६७) (वि०) मोहनीयकर्मक्षयाद्विशेषतः कर्मक्षयोऽवश्यंभावीति दर्शयति(२६५)(अव०)-अनुप्राप्तः परिगतः।जीवानां सर्वेषां कर्मभाजांदहेत्, यदि सङ्क्रमः स्यात्॥२६५॥ (२६६)(अव०) सङ्क्रम: सामस्त्येनकर्मप्रवेशः।अथसमास्तु विभागएकदेशोऽपिनाक्रामति २६६ (२६७) (अव०)-मस्तकं-शिरोगतांसक्षयात् वृक्षस्य ध्रुवो-निश्चयेन भवति ॥२६७॥