________________
प्रशमरतिप्रकरणम्
१६५
सर्वेन्धनैकराशीकृतसन्दीप्तो ह्यनन्तगुणतेजाः । ध्यानानलस्तपःप्रशमसंवरहविविवृद्धबलः ॥२६४॥
सञ्चलनलोभे प्रक्षिप्य, त्रिधा कृत्वा युगपद्भागद्वयं क्षपयित्वा पश्चात्तृतीयभागं सङ्ख्येयानि खण्डानि करोति । तानि क्षपयन् बादराणि खण्डानि बादरसम्पराय उच्यते । तत्र च यच्चरमं सङ्ख्येयतमं खण्डं, तदसङ्ख्येयानि खण्डानि करोति । तानि क्रमेण क्षपयन् सूक्ष्मसम्पराय उच्यते । तेष्वपि निःशेषतः क्षपितेषु निर्ग्रन्थो भवति । मोहसागरादुत्तीर्णः। ती|१२ मोहमहासमुद्रं मुहूर्तमात्रं विश्राम्यति । १३अगाधसमुद्रोत्तीर्णलब्धगाधपुरुषवत् । १४विश्राम्य च समयद्वये शेषे मुहूर्तस्य । तत्र १५तयोर्द्वयोः समययोः प्रथमे समये निद्रां प्रचलां च दर्शनावरणप्रकृती द्वे क्षपयति । चरमसमये ज्ञानावरणं पञ्चप्रकारं, दर्शनावरणं चतुविधम्, अन्तरायं पञ्चविधं युगपत्क्षपयित्वा केवलज्ञानं प्राप्नोति । एवं द्वाविंशत्युत्तरशतमध्ये षष्ठ्या प्रकृतिभिः क्षपिताभिः केवललाभो भवति ॥२६३॥
(२६४) टीका-तस्यां च क्षपकश्रेण्यां वर्तमानस्य कावस्था जायत ? इत्याहसर्वेन्धनकेत्यादि। सर्वेन्धनानां पुञ्जीकृतानामेकराशीकृतः सन्दीप्त इन्धनराशिदत्ताग्निलागिताग्निर्यथा दहति, एवमनन्तगुणतेजा ज्ञानानलः । तपो द्वादशभेदं, प्रशमः कषायजयः संवर आश्रवनिरोधः, तपःप्रशमसंवरा एव हविघृतं तत्प्रक्षेपात् विशेषेण वृद्धं बलं शक्तिर्यस्य ज्ञानानलस्येति ॥२६४॥
(२६४) (वि०) अथ तस्य ध्यानानलः किं करोतीत्यार्याद्वयेनाह-सर्वैन्धनैकेति । स ध्यानानलः समर्थो वर्तत इति शेषः । किं कर्तुं ?-क्षपयितुं । किं तत् ?-कर्म । केषां?-सर्वकर्मिणांसमस्तजीवानामित्यार्याद्वयक्रियाकारकघटना । यदि किं?-यदि स्याद्-भवेत् । कः?-सङ्क्रमःसङक्रमणं । कस्य?-कर्म इति विभक्तिलोपात्कर्मणः । कीदृशस्य?-परकतस्य-अन्योपात्तस्य । कीदृशो ध्यानानल: ?-एक:-अद्वितीयः । पुनः कीदृशः ?-सर्वेन्धनानां कर्मणां च एकराशीकरणंसञ्चयकरणमेकराशीकृतं तेन सन्दीप्तो-देदीप्यमानः सर्वेन्धनैकराशि कृतसन्दीप्तः। हि: पूरणे । अयमों-भावेन्धनं कर्म तद् ध्यानं दहति द्रव्येन्धनं काष्ठादि तदनलो दहतीत्येवमत्र द्रष्टव्यम् । तथाऽनन्तगुणं तेजो यस्य सोऽनन्तगुणतेजाः । क एवंविधः ?-ध्यानमेवानल:-अग्निर्यथा तपःप्रशमसंवरा एव हविः-घतं तेन विवद्धं-विशेषवद्धिमपगतं बलं-सामर्थ्यं यस्य स तथेति ।।२६४॥
(२६४) (अव०) यथा 'लालिताग्निः काष्ठादिः, एवं ध्यानाग्निः । अनन्तगुणं तेजो यस्य । तपोऽनशनादि । त एव हविर्घतम् ॥२६४॥