________________
१६४
प्रशमरतिप्रकरणम्
सर्वोद्धातितमोहो निहतक्लेशो यथा हि सर्वज्ञः । भात्यनुपलक्ष्यराआँशोन्मुक्तः पूर्णचन्द्र इव ॥२६३॥
(२६३) टीका-सर्वोद्घातितेत्यादि । सर्वः सकल उद्घातितो ध्वस्तो मोहो येन स सर्वोद्घातितमोह: । निहताः क्लेशा येनासौ तथोक्तः । क्लेशयन्तीति क्लेशाः क्रोधादय एव दुर्दमत्वात्पृथगुपात्ताः । यथा हि सर्वज्ञः सर्वज्ञो ह्युत्पन्नकेवलज्ञानो भवति । स तु क्षपितसकलमोह: सर्वज्ञवद्भाति शोभते । अनुपलक्ष्यराओंशोन्मुक्तः । अनुपलक्ष्यो यो राहंशो मुखादिविभागेन तेन मुक्तः पूर्णचन्द्र इव । अतिसझेपेणोक्ता क्षपकश्रेणी प्रकरणकारेण, प्रदर्शनमात्रत्वात् । अधुना विशेषेणोच्यते-अनन्तानुबन्धिनश्चतुरः कषायान् युगपत्क्षपयति । तेषामनन्तभागं शेषं मिथ्यात्वे प्रक्षिप्य मिथ्यात्वं क्षपयति । मिथ्यात्वस्यापि शेषं सम्यमिथ्यात्वे प्रक्षिप्य सम्यमिथ्यात्वं क्षपयति । तच्छेषं सम्यक्त्वे प्रक्षिप्य सम्यक्त्वमपि क्षपयति । यदि च बद्धायुष्कस्ततः क्षीणे सप्तके तत्रैव अवतिष्ठति नोपर्यारोहति । अबद्धायुष्कस्तु अविश्रान्त्या अविच्छेदेन सकलां श्रेणिमध्यारोहति । ततोऽष्टौ कषायान् क्षपयति । सर्वत्र च सावशेषे पूर्वके पुरस्ताल्लगति । अष्टानां कषायाणां सङ्ख्येयभागं क्षपयित्वा विमध्यभागे नामकर्मण इमाः प्रकृतीस्त्रयोदश क्षपयति-नरकतिर्यग्गती द्वे, एकद्वित्रिचतुरिन्द्रियजातयः चतस्रः, नरकतिर्यग्गत्यानुपूव्यौं द्वे, अप्रशस्तविहायोगतिः, स्थावरसूक्ष्मापर्याप्तकसाधारणशरीरनामानि चत्वारि । दर्शनावरणीयकर्मणश्च तिस्रः प्रकृती: क्षपयतीमा:-निद्रानिद्राप्रचलाप्रचलास्त्यानाख्याः । ततो यदवशेषमष्टानां तत्क्षपयति कषायाणामप्रत्याख्यानप्रत्याख्यानावरणानाम् । ततो नपुंसकवेदं १°स्त्रीवेदं च । ततो हास्यत्यरतिभयशोकजुगुप्साः क्षयं नयति । ततः पुरुषवेदं त्रिधा कृत्वा ११युगपद्भागद्वयं क्षपयित्वा तृतीयभागं सज्वलनक्रोधे प्रक्षिप्य, क्रोधमपि त्रिधा कृत्वा युगपद्भागद्वयं क्षपयित्वा तृतीयभागं सज्वलनमाने प्रक्षिप्य, सञ्चलनमानमपि त्रिधा कृत्वा युगपद्भागद्वयं क्षपयित्वा तृतीयभागं (सज्वलनमायायां तां च त्रिधा कृत्वा भागद्वयं युगपत्क्षपयित्वा तृतीयं)
(२६३)(वि०)सर्वेति। ततः सर्वः-अशेष: उद्घातितो-ध्वस्तो मोहो येन स तथा। निहतक्लेश:अपगतदुःखः । यथा हि सर्वज्ञः-सर्वज्ञवद् । भाति-शोभते । न उपलक्ष्यते अनुपलक्ष्यो राद्वंशोमुखादिविभागस्तेनोन्मुक्तो-दुष्टग्रहांशविकल: पूर्णचन्द्र इव, एवं क्षीणमोहो भातीति दृष्टान्तद्वयमिति॥२६३।।
(२६३) (अव०) सकल उद्घातितो ध्वस्तो मोहो 'येन सः निहता: क्लेश: येनासौ, अपगतदुःखः सर्वज्ञवद् अनुपलक्ष्यो नाद्यापि स्वविषयां प्रतीतिमुत्पादयितुं प्रत्यलः, यथा राहुणा पूर्णचन्द्रो मुक्तोऽपि कियन्तं कालमनुपलक्ष्यो भवति, तथा क्षीणमोह इति ॥२६३॥