________________
प्रशमरतिप्रकरणम्
१६३
सम्यक्त्वमोहनीयं क्षपयत्यष्टावतः कषायांश्च । क्षपयति ततो नपुंसकवेदं स्त्रीवेदमथ तस्मात् ॥२६१॥ हास्यादि ततः षट्कं क्षपयति तस्माच्च पुरुषवेदमपि ।
सज्वलनानपि हत्वा प्राप्नोत्यथ वीतरागत्वम् ॥२६२॥ अनन्तानुबन्धिनः क्रोधमानमायालोभास्तान् प्रथमं क्षपयति ततोऽपि मिथ्यात्वं क्षपयति । कीदृशं तत् ? मोहगहनं मोहो गहनो घनो यस्मिन्मिथ्यात्वे तन्मोहगहनम् । ततः ३सम्यग्मिथ्यात्वं क्षपयति ॥२६०॥
(२६१) टीका-सम्यक्त्वेत्यादि । ततः सम्यक्त्वं क्षपयति । ततोऽप्रत्याख्यानकषायचतुष्कम् प्रत्याख्यानावरणकषायचतुष्कं च क्षपयति । ततो नपुंसकवेदम् । पश्चात्स्त्रीवेदं पुरुषः क्षपकश्रेणिमारोहन् । यदा स्त्री समारोहति तदा स्त्रीवेदं पश्चात्क्षपयति । अथ 'नपुंसक आरोहति ततो नपुंसकवेदं पश्चात्क्षपयति ॥२६॥
(२६२) टीका-हास्यादीति । हास्यं रतिररतिर्भयं शोको जुगुप्सा चेति षट्कम् । ततः १पुरुषवेदं क्षपयति । सज्वलनानपि क्षपयित्वा वीतरागत्वमवाप्नोति । उन्मूलितेऽष्टाविंशतिविधेऽपि मोहे वीतरागो भवतीति ॥२६२।। कषायाणां क्षयं-विनाशं । ततो 'मिथ्यात्वमोह एव गहनं मिथ्यात्वमोहगहनं, भयानकत्वात् । ततः क्षपयति सम्यक्त्वमिथ्यात्वं-मिश्रमिति ॥२६०॥
(२६१) (वि०) अथ केन क्रमेण मोहोन्मूलनमित्याह-पूर्वमिति । 'ततः सम्यक्त्वं ३क्षायोपशमिकं पुञ्जरूपं चतुर्थगुणस्थानकाद्यप्रमत्तान्तानामन्यतरस्मिन् । अतः क्षपयत्यष्टौ कषायांश्चद्वितीयतृतीयान् क्षपयति । ततो नपुंसकवेदं स्त्रीवेदमथ तस्मादिति ।।२६१।।
(२६२) (वि०) हास्यादीति । ततः षट्कं कीदृशम् ?-हास्यादि, तस्मात्पुरुषवेदमपि । सञ्चलनानपि हत्वा क्षपकश्रेणिक्रमात् प्राप्नोति-लभते अथ वीतरागत्वं-क्षीणमोहो भवति । श्रेणिस्तु
अणमिच्छमीससम्मं अट्ठनपुंसित्थिवेयछक्कं च । पुंवेयं च खवेइ कोहाईए रेस संजलणे ॥ इति ।।२६२।। [अन( अनन्तानुबन्धिचतुष्कं) मिथ्यामिश्रसम्यक्त्वं अष्टनपुंसक स्त्रीवेदषट्कं च । पुंवेदं च क्षपयति क्रोधादीन् स सज्वलनान् ।]
कषायाणां यावज्जीवावस्थायिनां कषायाणाम् । ततो मिथ्यात्वमोह एव गहनं, ततोऽपि मिश्रं सम्यक्त्वं च मिथ्यात्वं च सम्यग्मिथ्यात्वं, एतावता मिश्रम् ॥२६०॥
(२६१)(अव०) सम्यक्त्वं क्षायोपशमिकपुञ्जरूपं, ततो द्वितीयतृतीयकषायान् ॥२६१॥
(२६२) (अव० )-हास्य-रति'-अरति-शोक-भय-जुगुप्सा, उन्मूलितेऽष्टाविंशतिविधेऽपि मोहे वीतरागो भवति ॥२६२॥