________________
१६२
प्रशमरतिप्रकरणम्
तज्जयमवाप्य जितविघ्नरिपुर्भवशतसहस्रदुष्प्रापम् । चारित्रमथाख्यातं सम्प्राप्तस्तीर्थकृत्तुल्यम् ॥२५८॥ शुक्लध्यानाद्यद्वयमवाप्य कर्माष्टकप्रणेतारम् । संसारमूलबीजं मूलादुन्मूलयति मोहम् ॥२५९॥ पूर्वं करोत्यनन्तानुबन्धिनाम्नां क्षयं कषायाणाम् । मिथ्यात्वमोहगहनं क्षपयति सम्यक्त्वमिथ्यात्वम् ॥२६०॥
(२५८) टीका-तज्जयमित्यादि । तस्या जयस्तज्जयस्तमवाप्य । तज्जयं विभूतेरनुपजीवनम्, उत्पन्नानामपि लब्धीनां साधवो न परिभोगं विदधते । जिता निराकृता विघ्नप्रधाना रिपवः कषायाः क्रोधादयो । भवशतसहस्रैर्जन्मलक्षाभिरपि दुष्प्रापं दुर्लभं चारित्रमथाख्यातं यथाख्यातमेवाख्यातं सम्प्राप्तस्तीर्थकरत्तुल्यं, यथा तीर्थकरस्तत्स्थानं प्राप्तस्तथासावपि भवतीति विशिष्टेनोपमा क्रियते ॥२५८॥
(२५९) टीका-शुक्लध्यानेत्यादि । शुक्लध्यानस्याद्यद्वयमवाप्य पृथक्त्ववितर्कसविचारमेकत्ववितर्कमविचारं च । किं करोति ? मोहमुन्मूलयति । कीदृशं मोहं ? कर्माष्टकस्य प्रणेतारं नायकम् । संसारतरोर्मूलमाद्यं प्रथमं बीजम् । समूलकाषं कषत्युन्मूलयतीति ॥२५९।।
(२६०) टीका-अथ केन क्रमेण मोहोन्मूलनमित्याह-पूर्वं करोतीत्यादि ।
(२५८) (वि०) यदुपरि तस्य स्यात्तदाह-तज्जयमिति । शुक्लेति । तस्या जयः तज्जयः तं-विभूत्यनुपजीवनमवाप्य-प्राप्य, को?-जितविघ्नरिपुः-तिरस्कृतरागादिशत्रुः । सम्प्राप्तः । किं तत् ?-चारित्रम् । कीदृशम् ?-अथाख्यातं-भण्यते तथा । भवशतसहस्रदुष्प्रापंबहुकाललभ्यम् । तीर्थकृत्तुल्यं-जिनचारित्रसदृशमिति ॥२५८॥
(२५९) (वि०) शुक्लध्यानस्याद्यद्वयमवाप्य-पृथक्त्ववितर्कं सविचारमिति एकत्ववितर्कमविचारमिति भेदरूपं । किं करोति ? मोहमुन्मूलयतीति 'सम्बन्धः । कीदृशं मोहम् ? कर्माष्टकप्रणेतारं-नायकं । तथा संसारस्य-भवतरोर्मूलबीजम्-आद्यं कारणं, मूलादारभ्योन्मूलयतिक्षपयतीति ॥२५९॥
(२६०) (वि०) पूर्वं करोति-प्रथमं विदधाति अनन्तानुबन्धिनाम्नां-तत्सङ्घकानां
(२५८) (अव०)-तज्जयं तपोऽनुष्ठानजन्यातुल्यविभूतिबन्धाभिभवं । यथा तीर्थकरस्तत्स्थानकं प्राप्तस्तथाऽसावपि भवति ॥२५८॥
(२५९) (अव०)-पृथक्त्ववितर्कसविचारम् १ 'एकत्ववितर्कमविचारं २ । कर्माष्टकमध्ये स्वामिनम् ॥२५९॥
(२६० ) (अव० )-अथ क्षपकश्रेणिमारोहन् मोहमुन्मूलयन् प्रथमं अनन्तानुबन्धिनां