________________
प्रशमरतिप्रकरणम्
सातद्धिरसेष्वगुरुः सम्प्राप्य विभूतिमसुलभामन्यैः ।
सक्तः प्रशमरतिसुखे न भजति तस्यां मुनिः सङ्गम् ॥ २५६॥ या सर्वसुरवरद्धिर्विस्मयनीयाऽपि साऽनगार्द्धेः । नार्घति सहस्रभागं कोटिशतसहस्त्रगुणितापि ॥ २५७॥
१६१
कल्याणम् । २ऋद्धिप्रकारविशेषास्तस्यामवस्थायामुपजायन्ते वियद्गमनवैक्रियाणिमादिकाः । भद्रं कल्याणं जातं भद्रं कल्याणमस्येति, तस्य जातभद्रस्य ॥ २५५॥
(२५६) टीका - सातर्द्धात्यादि । साते ऋद्धौ रसे च अगुरुः अकृतादरः । प्राप्य विभूतिमाकाशगमनादिकाम् । अन्यैरसुलभामप्राप्ताम् । तादृक्चारित्रैः सक्तोऽभिरतःप्रशमरतिसुखे । न भजति न करोति । तस्यां विभूतौ मुनिः सङ्गं स्नेहं, नोपजीवति लब्धीरित्यर्थः ॥२५६॥
I
( २५७) टीका-सर्वर्द्धातिशायिनी यतीनामृद्धिर्भवति परमातिशयप्राप्तत्वादिति दर्शयति-या सर्वेत्यादि । सर्वसुराणां ये वराः प्रधानभूताः कल्पाधिपतय इन्द्राः शक्रादयः कल्पातीताश्च । तेषामृद्धिर्विभूतिर्या सा विस्मयकारिणी भवति प्राणिनाम्, अतो विस्मयनीयापि सती सा विभूतिरनगारर्द्धेः साधुजनसमृद्धेर्नार्घति सहस्रभागम् । कोटिशतसहस्रगुणितापि सा `सुरवरर्द्धिः कोटिलक्षगुणितापि नार्घति, सहस्रांशेनाप्यनगारर्द्धेः तुल्यतामेतीत्यर्थः ॥२५७॥
विभवास्ते विद्यन्ते यत्र तत्तथा । पुनः किंविशिष्टस्य साधोः ? - जातभद्रस्य - समुत्पन्नकल्याणस्येति || २५५ ॥ इति ध्यानाधिकारः ॥ १८ ॥
( २५६ ) ( वि० ) साम्प्रतं तामृद्धिं प्राप्यापि न तस्यां सङ्गं करोतीत्येतदाह - सातद्धिरिति । सातं च-सुखम् ऋद्धिश्च विभूतिः रसश्च - अमृतकल्पाहारस्ते तथा तेषु । अगुरुः-गौरवरहितः । तथा प्राप्य-लब्ध्वा । काम् ? - ऋद्धि-विभूतिं - अणिमा 'महिमा, लघिमा, गरिमा, ईशित्वं, वशित्वं सर्वजनप्रियत्वमित्यादिकाम् । कीदृशीम् ? - असुलभां - दुष्प्रापामन्यैः कापुरुषैः । सक्तः-आसक्तः । क्व ?-प्रशमे रतिः प्रशमरतिः सैव सुखं प्रशमरतिसुखं तस्मिन् प्रशमरतिसुखे, न- नैव भजति-करोति । कम् ?–सङ्गं-रागं । मुनिः - साधुः । क्व ? - तस्याम्-ऋद्धाविति ॥२५६॥
(२५७) (वि०) यस्यां सङ्गं न धत्ते मुनिस्तां स्वरूपत आह-या इति । या सर्वसुरवरर्द्धिः-चतुर्विधेन्द्रविभूतिर्विस्मयनीयाऽपि जनानन्दकारिणी' साऽनगारर्द्धेः - साधुजनविभूतेः सहस्रभागमपि न-नैवार्धति - नार्घं प्राप्नोति न तुल्या भवतीत्यर्थः । कीदृश्यपि ?-कोटिशतसहस्रगुणिताऽपि-कोटिलक्षाभ्यस्ताऽपीति ॥२५७॥
( २५६ ) ( अव० )–सुखविभूतिरसामृतकल्पाहारेषु 'अगुरुर्गौरवरहितः अकृतादर इत्यर्थः । २लब्धिमाकाशगमनादिकां दुष्प्रापां कापुरुषैः, तस्यामामर्षौषध्यादिविभूतौ प्राप्तायामपि ॥२५६॥ ( २५७ ) ( अव० ) - सर्वसुरवर्द्धिश्चतुर्विधेन्द्रविभूतिः ॥ २५७॥