________________
१६०
प्रशमरतिप्रकरणम्
अध्यवसायविशुद्धेः प्रशस्तयोगैर्विशुद्ध्यमानस्य । चारित्रशुद्धिमग्र्यामवाप्य लेश्याविशुद्धिं च ॥२५४॥ तस्यापूर्वकरणमथ घातिकर्मक्षयैकदेशोत्थम् ।
शुद्धिप्रवेकविभववदुपजातं जातभद्रस्य ॥२५५॥ २काञ्चनं च मुक्तं येन नाभिलषितं, यथा लोष्टः मृत्पिण्डो नाभिलष्यते एवं कनकमपि । एतदुक्तं भवति-न मृत्पिण्ड: तृष्णास्पदं तथा कनकमपि यस्य स मुक्तलोष्टकाञ्चनः । मुक्तं परित्यक्तम् । स्वाध्यायो वाचनादिपञ्चप्रकारः, ध्यानं ३धादिस्तत्परायणस्तद्व्यग्रस्तदुपयोगः । दृढं बाढं सुष्ठु। अप्रमत्तस्य सकलप्रमादपरिहारिणः ।।२५३।।
(२५४) टीका-अध्यवसायेत्यादि । अध्यवसायविशुद्धिर्मन:परिणामस्य निर्मलता। तस्याश्चाध्यवसायविशुद्धेर्हेतुभूतायाः । प्रमत्तयोगैर्विशुद्धयमानस्य ये व्यापारा मनोवाक्कायविषयास्तैर्विशोधनशीलस्य ३विमुच्यमानस्येति । ततश्च चारित्रशुद्धिमय्यां प्रधानभूतामवाप्य लेश्याविशुद्धिं च तैजसीपद्मशुक्ललेश्यानामन्यतमलेश्यायाः प्रकृष्टां विशुद्धिं सम्प्राप्येति ॥२५४॥
(२५५) टीका-एताः सर्वाः पूर्वकालाः क्रियाः सम्प्रत्युत्तरक्रियानिर्देशार्थमाहतस्येत्यादि । यदेतदुक्तमेतदन्तेऽपूर्वकरणमुपजातमप्राप्तपूर्वं घातिकर्माणि ज्ञानावरणदर्शनावरणमोहान्तरायाख्यानि तेषामेकदेशक्षयः, 'कस्यचित्सर्वक्षयः, तस्मादुद्भूतमाविर्भूतम् । ऋद्धिप्रवेकाः ऋद्धिप्रकराः तेषां विभवः प्राचुर्यं ते यत्र विद्यन्ते तद् ऋद्धिप्रवेकविभववत् भद्रं तुल्यौ तृणमणी यस्य स तथा । मुक्ते लेष्टुकनके येन स तथा । ततः कर्मधारयस्तस्य । स्वाध्यायध्यानपरायणस्येति व्यक्तम् । दृढं-अत्यर्थमप्रमत्तस्य-प्रमादरहितस्येति ॥२५३॥
(२५४) (वि०) अध्यवसायेति । अध्यवसायविशुद्धः सकाशात् प्रशस्तयोगैःशुभमनोवाक्कायैर्विशुद्ध्यमानस्य-निर्मलतां गच्छतः । तथा अवाप्य-प्राप्य । काम् ?-चारित्रशुद्धिम् । कीदृशीम् ?-अग्रयाम् उत्तरोत्तरकालभाविनीम् । 'लेश्याविशुद्धिं चेति ॥२५४॥
(२५५) (वि०) तस्येति । तस्य-यतेः पूर्वोक्तानेकगुणान्वितस्य अपूर्वं-करणंप्राक्तनकर्मक्षयदक्षमुपजातं भवति । अथ-अनन्तरं । कीदृशम् ?-घातिकर्मणां चतुर्णां क्षयैकदेश:असमस्तक्षयस्तदुत्थं-तत्प्रभवम् । पुनः कीदृशम् ?-ऋद्धेः प्रवेका:-प्रकारा अवधिज्ञानादयस्त एव
(२५४)(अव०)-चित्तनैर्मल्यात् प्रमाददण्डयोगै: विमुच्यमानस्य अग्र्यां प्रधानभूताम् ॥२५४॥
( २५५)(अव०)-प्राक्तनकर्मक्षयकरणदक्षम्, अथानन्तरं घातिकर्मणां चतुर्णां क्षयैकदेशोऽसमस्तक्षयस्तदुत्थम् ।ऋद्धय-आमर्पोषध्यादयः । प्रवेका-अवधिज्ञानादिविशेषाः । विभवास्तृणाग्रादपि कनकवृष्टिकर्तृत्वादयः ते विद्यन्ते यत्र तत्तथा, जातं भद्रं कल्याणमस्य तस्य ॥२५५॥