________________
प्रशमरतिप्रकरणम्
१५९
तुल्यारण्यकुलाकुलविविक्तबन्धुजनशत्रुवर्गस्य । समवासीचन्दनकल्पनप्रदेहादिदेहस्य ॥२५२॥ आत्मारामस्य सतः समतृणमणिमुक्तलोष्ठकनकस्य ।
स्वाध्यायध्यानपरायणस्य दृढमप्रमत्तस्य ॥२५३॥ भीतः संसारात् । एवमुक्तेन प्रकारेण । क्षमाप्रधानस्य क्षमामूलत्वाद्धर्मस्य तत्प्रधानत्वम् । निर्गताभिमानस्य गर्वरहितस्येति । धुतमायाकलिमलनिर्मलस्य धुतो विधितो विक्षिप्तो मायैव कलिमलः कल्मषं पापं, तत्क्षपयतः । रेजितसकललोभकषायस्य ॥२५१।।
__ (२५२) टीका-तुल्यारण्येत्यादि । तुल्यमरण्यं कुलाकुलश्च जनपदः सदृशः स्वात्मकार्यव्यग्रत्वात्, यादृगरण्यं तादृग् जनाकुलमपि । विविक्तबन्धुजनशत्रुवर्गस्य बन्धुजनः स्वजनलोकः शत्रुवर्गो रिपुसमूह: तौ विविक्तौ यस्य पृथग्भूतात्मनः सकाशात्, यथा बन्धुवर्गस्तथा शत्रुवर्गः, मत्तोऽन्य एव बन्धुवर्गः शत्रुवर्गश्च विविक्तः, तत्र तुल्यचित्तवृत्तिः, यथा स्वजनवर्गस्तथा शत्रुवर्गोऽपीति । तथा समस्तुल्यः यो वास्या तक्ष्णोति यश्च चन्दनादिनोपलिम्पति । कल्पनं तक्षणं, प्रदेह उपलेपनं चन्दनादिभिः, तत्र समवासीचन्दनकल्पनप्रदेहो' यस्य स एवमुक्तः ॥२५२॥
(२५३) टीका-आत्मारामस्येत्यादि । आत्मन्येवारमति प्रीतिं करोति स्वकार्य एव व्याप्रियते, न बहि: प्रीतिं बध्नाति । समं तुल्यं तृणं 'दर्भाशुकादि मणयश्च पद्मरागादयः, लोष्टं
संसारस्योपरि उद्वेगं कुर्वतः क्षमाप्रधानस्य निरभिमानस्य-जितकोपाहङ्कारस्य धुतमायाकलिमल:अपनीतपापः स चासौ निर्मलश्च स तथा तस्य । जितसर्वतृष्णस्य-निजिताशेषलोभस्येति ॥२५१॥
( २५२) (वि० ) तुल्येति । तुल्यौ-समानौ अरण्यकुलाकुलौ प्रदेशौ यस्य जीवस्य स तथा, तत्रारण्यं-अटवी कुलानि-उग्रादीनि तैराकुलः-आकीर्ण इति । विविक्तौ-पृथग्भूतौ बन्धुजनशत्रुव! यस्य स तथा । ततोऽनयोः कर्मधारयस्तस्य । वासी चन्दनं च ते तथा, ताभ्यां कल्पनप्रदेहौ-छेदनविलेपौ तावादी येषां ते तथा । समः-तुल्यो वासीचन्दनकल्पनप्रदेहादिषु देह:शरीरं यस्य स तथा तस्य, इह प्रदेहशब्देनानुलेपनं 'दिह उपचय' इति धातुप्रयोगादिति ॥२५२॥
(२५३) (वि०) आत्मेति । आत्मारामस्य-कृतजीवाभिरतेः । सतः-शोभनस्य । समौ
( २५२) (अव०) विविक्तौ-पृथग्भूतौ बन्धुजनशत्रुवर्गों यस्य । समस्तुल्यो वासीचन्दनाभ्यां कल्पनप्रदेहादिः च्छेदनानुलेपनादिः यस्य स तथैवंविधो देहो यस्य सः ॥२५२॥
(२५३) (अव०)-कृतात्माभिरतेः । 'स्वकार्य एव व्याप्रियते, न बहिः प्रीतिं विदधाति । दृढमप्रमत्तस्य ॥२५३॥