________________
१५८
प्रशमरतिप्रकरणम्
जिनवरवचनगुणगणं सञ्चिन्तयतो वधाद्यपायांश्च । कर्मविपाकान् विविधान् संस्थानविधीननेकांश्च ॥२५०॥ नित्योद्विग्नस्यैवं क्षमाप्रधानस्य निरभिमानस्य ।
धुतमायाकलिमलनिर्मलस्य जितसर्वतृष्णस्य ॥२५१॥ प्रयोजनमशुभानां कर्मांशानामयं विपाकः शुभानां चायमिति संसारभाजां जीवानां तदन्वेषणं ३विपाकविचयः । द्रव्यक्षेत्राकृत्यनुगमनं धर्मद्रव्यमधर्मश्च तौ लोकपरिणामाणौ तयोः संस्थानं लोकाकाशस्यैव । तत्राधोमुखमल्लक “इत्यादावुक्तम् । पुद्गलद्रव्यमनेकाकारमचित्तमहास्कन्धश्च सर्वलोकाकारः । जीवोऽप्यनेकाकार: शरीरादिभेदेन यावल्लोकाकार: समुद्घातकाले। कालोऽपि यदा क्रियामात्रं द्रव्यपर्यायः तदा द्रव्याकार एव। यदा तु स्वतन्त्रं कालद्रव्यं १ तदैकसमयोऽर्धतृतीयद्वीपसमुद्राकृतिरित्येक:११ संस्थानविचयः ॥२४९॥
(२५०) टीका-सम्प्रति पारम्पर्येण धर्मध्यानस्य विशिष्टफलदर्शनायाह-जिनवरेत्यादि । जिनानां वरास्तीर्थकरास्तेषां वचनं तस्य(गुणा अहिंसकत्वादयस्तेषां') गुणगणः गुणसमूहस्तम् । सञ्चिन्तयतः सम्यगालोचयतः आज्ञागुणान् । वधाद्यपायांश्च द्वितीयभेदे तु चिन्तयतः वधबन्धनाभियोगासमाधिप्रभृतीन् । तृतीयभेदे च कर्मणो विपाकान् विविधान् शुभानशुभांश्च । चतुर्थभेदे संस्थानविधीन् संस्थानप्रकारान् बहूनिति ॥२५०।।
(२५१) टीका-किं भवतीत्याह-नित्योद्विग्नस्येत्यादि । नित्यमित्यहर्निशमुद्विग्नो
मेवार्थो-वाच्यं यस्य स तथा । क एवंविधो ?-विपाकविचय इति तृतीयभेदः स्यादिति । द्रव्याणि षट् क्षेत्रम्-ऊर्ध्वाधस्तिर्यग्लक्षणं तयोराकारा:-आकृतयस्तासामनुगमनं-चिन्तनं । तत्कि ?संस्थानविचयस्तु स्यादिति चतुर्थभेद इति ॥२४९।।
( २५०) (वि०) एकैकभेदं चिन्तयतो यत्स्यात्तदाह-जिनेति । तस्य शीलधारिणो जिनवरवचनगुणगणं 'सञ्चिन्तयतः साधोरपूर्वकरणमुपजातं भवतीति षष्ठ्यार्यायां सम्बन्धः । कीदृशस्य जिनवरवचनगुणगणं प्रथममाज्ञाविचयं १ वधाद्यपायांश्च चिन्तयतो द्वितीयमपायविचयं २ कर्मविपाकान् विविधान् विचिन्तयतस्तृतीयं कर्मविपाकविचयं ३ संस्थानविधीननेकांश्च चतुर्थं संस्थानविचयमिति ४ ॥२५०॥
(२५१) (वि०) अग्रेतनानि साधुविशेषणान्याह-नित्य इति । नित्योद्विग्नस्य
(२५१) (अव० )-नित्योद्विग्नस्य-संसारोपरि नित्यमुद्वेगं कुर्वतः । जितकोपाहङ्कारस्य । कलिमलं-पापं । जितसर्वलोभस्य ॥२५॥