________________
प्रशमरतिप्रकरणम्
१५७
आप्तवचनं प्रवचनं चाज्ञाविचयस्तदर्थनिर्णयनम् । आश्रवविकथागौरवपरीषहाद्येष्वपायस्तु ॥२४८॥ अशुभशुभकर्मपाकानुचिन्तनार्थो विपाकविचयः स्यात् ।
द्रव्यक्षेत्राकृत्यनुगमनं संस्थानविचयस्तु ॥२४९॥
(२४८) टीका-तत्राज्ञाविचयापायविचययोः स्वरूपनिरूपणायाह-आप्तवचनमित्यादि । आप्तः क्षीणाशेषरागद्वेषमोहस्तस्य वचनं प्रवचनं अलीकादिशङ्कादिरहितं द्वादशाङ्गमागमः । तस्याः खल्वाज्ञायाः सर्वज्ञदत्ताया विचयो गवेषणं गुणवत्त्वेन निर्दोषत्वेन च। तस्यार्थः प्रवचनस्य निर्णयनं विनिश्चयः । सर्वाश्रवद्वारनिरोधैकरसत्वाद् गुणयुक्तं, न कश्चिद्दोषोऽस्तीति १आज्ञाविचयं वा । विचयोऽभ्यासः सूत्रार्थविषयः । आश्रवाः कायवाङ्मनांसि, विकथा स्त्रीभक्तचौरजनपदविषयाः, गौरवमृद्धिसातरसाख्यं त्रिधा, परीषहाः क्षुत्पिपासादयः । आदिग्रहणादगुप्तत्वमसमितत्वं च । एतेषु वर्तमानस्य जन्तोरपाय बहुलत्वं नारकतिर्यक्त्वदेवमानुषजन्मसु प्रायेण प्रत्यवायाः सम्भवन्ति भूयांस इति पश्चार्धन निरूपितमपायविचयम् ।।२४८॥
(२४९) टीका-तृतीयचतुर्थभेदयोर्निरूपणायाह-अशुभेत्यादि । १अशुभं शुभं च कर्म द्वयोः कोट्योः वर्तते, तस्यरे पाको विपाकोऽनुभवो रस इत्यर्थः । तस्यानुचिन्तनं
(२४८) (वि०) एतानेव लेशतो व्याचष्टे-आप्तेति । आप्तस्य-रागादिरहितस्य वचनमाप्तवचनं प्रवचनं च, किम् ?-आज्ञा, तस्या विचयः कः ?, उच्यते, तदर्थनिर्णयनं, तस्याआज्ञाया अर्थो वाच्यः । तस्य निर्णयनमिति । आश्रवाः-प्राणातिपातादयः विकथा:-स्त्रीकथाद्या गौरवाणि-ऋद्धिप्रभृतीनि परीषहा:-क्षुदादयः एतदाद्यैरनुष्ठानैः शास्त्रनिषिद्धैर्योऽपायस्त्वैहिक: पारत्रिकश्च, चिन्त्यते धर्मार्थिना सोऽपायविचयः स्यादिति सम्बन्ध इति ॥२४८।।
(२४९) (वि० ) तृतीयचतुर्थभेदयोः स्वरूपमाह-अशुभेति । अशुभानि च व्यशीतिप्रमाणानि पूर्वोक्तानि शुभानि द्विचत्वारिंशत्प्रमाणानि च तानि च तानि कर्माणि च तेषां पाका-विपाका रसविशेषा एकद्वित्रिचतुःस्थानिकाः क्वथ्यमानकटुकमधुररसोन्नीयमानस्वरूपास्तेषामनुचिन्तन
(२४८) (अव०)-वीतरागवचनं प्रवचनं वाज्ञायाः सर्वज्ञदत्तायाः गवेषणं तस्या अर्थनिश्चयः । एभिर्हेतुभिरैह लौकिकोऽयशः पारलौकिको नरकतिर्यग्गतिभ्रमणरूपो धर्मार्थिना चिन्त्यते सोऽपायविचयः ॥२४८॥
(२४९) (अव०)-अशुभकर्मणां 'व्यशीतिः शुभकर्मणां (द्विचत्वारिंशद् )४२भेदानां, पाको रसः कटुकमधुरत्वादिस्तस्यानुचिन्तनार्थः । द्रव्याणां षण्णां', क्षेत्रमूर्ध्वाधस्तिर्यग्भेदं तेषामाकारानुचिन्तनमनुगमनं चिन्तनम् ॥२४९॥