________________
१५६
प्रशमरतिप्रकरणम्
शीलार्णवस्य पारं गत्वा संविग्नसुगमपारस्य । धर्मध्यानमुपगतो वैराग्यं प्राप्नुयाद्योग्यम् ॥२४६॥ आज्ञाविचयमपायविचयं च सद्ध्यानयोगमुपसृत्य । तस्माद्विपाकविचयमुपयाति संस्थानविचयं च ॥२४७॥
(२४६) टीका-शीलार्णवस्येत्यादि । शीलं मूलोत्तरगुणाः । शीलमर्णव इव दुरुत्तरत्वात् अनेकातिशयनिधानाद्वा । पारं गत्वा सम्पूर्णमवाप्य । कथं पुनः केन वा पारं गम्यते ? संविग्नसुगमपारस्येति । संविग्नाः संसारभीरवः सुखेनैव सकलशीलप्रापिणो भवन्ति । लब्ध्वा च सम्पूर्णशीलं धर्मध्यानं प्राप्ताः । वैराग्यं प्राप्नुयाद्योग्यमिति । योग्यं तत्कालावस्थायामुचितं प्रकृष्टं वैराग्यमित्यर्थः ॥२४६।।
(२४७) टीका-तच्च धर्मध्यानं चतुर्भेदमाचक्षाण आह-आज्ञाविचयेत्यादि । आज्ञाविचयमपायविचयं विपाकविचयं संस्थानविचयं च । स खलु 'चतुःप्रकारधर्मध्यान शीलार्णवपारगामी । आद्यध्यानद्वयमुपसृत्य सम्प्राप्य ततस्तृतीयं विपाकविचयमुपयाति ततस्तुरीयं संस्थानविचयमभ्येति ॥२४७।। ।
(२४६) (वि०) तदेवं शीलेति । शीलार्णवस्य-महाशीलसमुद्रस्य पारं-पर्यन्तं गत्वा । कीदृशस्य ?-संविग्नैः-सुसाधुभिः सुगमः-सुप्राप्यो मार्गः-पन्थाः, पाठान्तरतः पार:-पर्यन्तो वा यस्य स तथा। तस्य किमित्याह-प्राप्नुयात्-लभते । किम् ?-वैराग्यम् । कीदृशम् ?-योग्यं-उचितम् । तथा कीदृशः साधुरित्याह-उपगतः । किं तत् ?-धर्मध्यानमिति ॥२४६॥ इति शीलाङ्गाधिकारः ॥१७॥
(२४७) (वि०) तच्च धर्मध्यानं चतुर्धा प्राह-आज्ञेति । आज्ञाविचयमाद्यम् अपायविचयं द्वितीयं सद्ध्यानयोगं-सद्बुद्धिसम्पर्कमुपसृत्य-प्राप्य तस्मात्-तदनन्तरं विपाकविचयंतृतीयं भेदं धर्मध्यानस्योपयाति प्राप्नोति । संस्थानविचयं च चतुर्थभेदमिति ॥२४७।।
(२४६) (अव०)-संसारभीरुसुखप्राप्यपारम्य प्राप्तः, विरक्तायादूरानुयायिनं तत्कालावस्थायामुचितं प्रकृष्टम् ॥२४६॥
(२४७) (अव०)-धर्मध्यानस्य भेदचतुष्टयमाह-सबुद्धिसम्पर्कमाप्य ॥२४७॥