________________
प्रशमरतिप्रकरणम्
धर्माद्भूम्यादीन्द्रियसञ्ज्ञाभ्यः करणतश्च योगाच्च । शीलाङ्गसहस्त्राणामष्टादशकस्य निष्पत्तिः ॥ २४५ ॥
१५५
तपसा चाऽनशनादिना । ध्यानेन च १ धर्म्यादिना । भावनाभिश्चानित्यादिकाभिर्योगैश्च प्रशस्तैर्मनोवाक्कायव्यापारैः । शीलाङ्गसहस्राणामष्टादशकं अष्टादशशीलाङ्गसहस्राणीत्यर्थः । अयत्नेनानायासेन लीलयैव । साधयति स्वीकरोतीति ॥२४४||
(२४५) टीका - कानि पुनस्तान्यष्टादशशीलाङ्गसहस्राणीति केन चोपायेनाभिगम्यानीत्याह-धर्मादित्यादि । क्षमादिदशलक्षणको धर्मः प्रथमपङ्क्तौ रचनीयः । तस्या अप्यधो द्वितीयपङ्क्तौ भूम्यम्बुतेजोवायुवनस्पतिद्वीन्द्रियत्रीन्द्रियचतुःपञ्चेन्द्रिया अजीवकायश्च विन्यसनीयः । तस्या अप्यधस्तृतीयपङ्क्तौ श्रोत्रचक्षुर्भ्राणरसनस्पर्शनानि लेख्यानि । तस्या अप्यधश्चतुर्थपङ्क्तौ आहारभयपरिग्रहमैथुनसञ्ज्ञा रचनीयाः । पञ्चमपङ्क्तावधस्तस्या न करोमि न कारयामि कुर्वन्तमन्यं नानुमोदते एतत्त्रयं स्थाप्यम् । तस्या अप्यधः षष्ठपङ्क्तौ मनसा वाचा कायेनेति त्रयं विरचनीयम् । तत्र विकल्पानयने उच्चारणम् । क्षमयान्वितः पृथ्वीकायसमारम्भं संवृतश्रोत्रेन्द्रियद्वारः आहारसञ्ज्ञाविप्रमुक्तो न करोति मनसा । एवं पृथ्वीकायमपरित्यजन् दश विकल्पान् लभते । एवमप्कायसमारम्भादिष्वपि दशसु दश विकल्पा लभ्यन्ते । ते दश दशकाः शतम् । एतच्छतं श्रोत्रेन्द्रियममुञ्चता लब्धम् । एवं चक्षुरादिभिरपि शतं शतं लभ्यते । जातानि पञ्च शतानि । एतान्याहारसञ्ज्ञाममुञ्चता लब्धानि । तथा भयमैथुनपरिग्रहसञ्ज्ञादिभिरपि प्रत्येकं पञ्च पञ्च शतानि लभ्यन्ते । जातं सहस्रद्वयम् । एतत्सहस्रद्वयं न करोमीत्यमुञ्चता लब्धम् । एवमितराभ्यामपि द्वे द्वे सहस्रे लब्धे । ततश्च षट् सहस्राणि जातानि । एतानि च मनसा लब्धानि । ४ वाचा षट् सहस्राणि । कायेनापि षडेव सहस्राणीति। एवमेषां शीलाङ्गानां शीलकारणानामष्टादशसहस्राणि निष्पद्यन्ते ॥ २४५॥
( २४५ ) ( वि० ) चारणाकारणषट्पदप्रतिपादनपरेयमार्या कथ्यते तानि च षट् पदान्यधस्तात् 'पूर्वोक्ते यन्त्रकवचार्याणि । धर्मात् - क्षान्त्यादिकात् भूम्यादि - पृथिव्यादि इन्द्रियाणिस्पर्शनादीनि सञ्ज्ञा-आहाराद्याः ततः पदत्रयस्य द्वन्द्वः । करणतश्च - मनःप्रभृतिकात्, योगात्करणकारणानुमतिस्वरूपात्, शीलाङ्गसहस्राणाम् अष्टादशकस्य पूर्वोक्तयुक्त्या निष्पत्तिरिति ॥२४५॥
(२४५) (अव० ) - धर्मात् खंतीयमद्द० १० । भूम्यादिजीवा नव अजीवा १० । करणकारणानुमतित्रयम् । मनोवचनकायत्रयम् ॥२४५॥