Book Title: Prasharamrati Prakaranam
Author(s): Umaswati, Umaswami, Haribhadrasuri, Anandsagarsuri, Sagaranandsuri
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 211
________________ १८२ प्रशमरतिप्रकरणम् देहमनोवृत्तिभ्यां भवतः शारीरमानसे दुःखे । तदभावात् तदभावे सिद्धं सिद्धस्य सिद्धिसुखम् ॥ २९६॥ यस्तु यतिर्घटमानः सम्यक्त्वज्ञानशीलसम्पन्नः । वीर्यमनिगूहमानः शक्त्यनुरूपप्रयत्नेन ॥ २९७ ॥ ( २९६) टीका-अनुपमं तत्र सुखमस्तीति कथमवगम्यत इत्याह- देहमनोवृत्तीत्यादि । देहः शरीरं मनश्चित्तं तयोर्वृत्तिर्वर्तनं सद्भावः आत्मनि संश्लेषस्तत्र शरीरसंश्लेषाच्छारीरं दुःखमुपजायते । मनः सम्बन्धाच्च मानसं दुःखमिष्टवियोगादौ । तस्य च शरीरमनसोरभावे सति तत्कृतस्य दुःखस्याभाव: । दुःखाभावे च सिद्धं स्वाभाविकं प्रतिष्ठितमव्याहतं सिद्धिसुखमिति ॥ २९६॥ (२९७) टीका–यस्तु यतिर्घटेत्यादि । यतिस्तपस्वी साधुर्घटमानश्चेष्टमानः प्रवचनोक्तसकलक्रियानुष्ठायी । सम्यक्त्वेन शङ्कादिशल्यरहितेन सम्यग्ज्ञानेन च श्रुतादिना शीलेन च मूलोत्तरगुणरूपेण सम्पन्नः । शक्तिर्वीर्यं सामर्थ्यं तदनिगूहमानोऽपह्नवमकुर्वन् स्वशक्त्यनुरूपेण प्रयत्नेन च चेष्टते । अहर्निशमनुष्ठेयासु क्रियासु शाठ्यरहितः ॥२९७॥ ( २९६ ) ( वि० ) देहेति । देहमनोवृत्तिभ्यां - शरीरचित्तवर्तनाभ्यां कृत्वा भवतो -जायेते । के ?, अत आह-शारीरमानसे दुःखे इति, प्रतीतम् । तथा तदभावो 'दुःखाभावो वर्तते, क्व ? तदभावेदेहाद्यभावे, कारणाभावे कार्याभाव इत्यर्थः । ततः सिद्धं प्रतिष्ठितं सिद्धस्य - मुक्तस्य सिद्धिसुखमिति ॥ २९६ ॥ इति शिवगमनविधानाधिकारः ॥२२॥ ॥२९७ ॥ (२९७) (वि० ) इति प्रशमरतेर्मुख्यफलमुक्तम्, अधुनाऽवान्तरसुखपूर्वकं तदेवाह— यस्त्विति । यः पुनरनिर्दिष्टनामा यतिः - साधुः । कीदृश: ? - घटमानः- चेष्टमानः तां तां क्रियां कुर्वन्, तथा सम्यक्त्वज्ञानशीलैः कृतद्वन्द्वैः सुगमार्थैः सम्पन्नः - युक्तः सम्यक्त्वज्ञानशीलसम्पन्नः। तथा अनिगूहमानः-अनाच्छादयन् । किं तत् ? - वीर्यम् - उत्साहम्, कथम् ? - शक्त्यनुरूपं यथाशक्ति । केन ? - प्रयत्नेन - आदरेणेति ॥ २९७ ॥ (२९७) (अव० )—–घटमानः प्रवचनोक्तसकलक्रियासु प्रयत्नेन चेष्टतेऽहर्निशं क्रियासु

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333