Book Title: Prasharamrati Prakaranam
Author(s): Umaswati, Umaswami, Haribhadrasuri, Anandsagarsuri, Sagaranandsuri
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 196
________________ प्रशमरतिप्रकरणम् छद्मस्थवीतरागः कालं सोऽन्तर्मुहूर्तमथ भूत्वा । युगपद् विविधावरणान्तरायकर्मक्षयमवाप्य ॥ २६८॥ शाश्वतमनन्तमनतिशयमनुपममनुत्तरं निरवशेषम् । सम्पूर्णमप्रतिहतं सम्प्राप्तः केवलं ज्ञानम् ॥ २६९॥ १६७ मस्तकेत्यादि । तालतः शिरसि सूचिर्या २ प्ररोहति । तद्विनाशे च तालतरोरवश्यंभावी ध्रुवो नाशः । तद्वत्तथा शेषकर्मणां विनाशः क्षयोऽष्टाविंशतिविधमोहनीयक्षये ध्रुवो नित्य इत्यर्थः ॥२६७॥ (२६८) टीका-छद्मस्थेत्यादि । छद्म आवरणं तत्र स्थितः छद्मस्थः, वीतरागश्च क्षपितकषायत्वात्। अन्तर्मुहूर्तं घटिकाद्वयाभ्यन्तरकालं वीतरागो भूत्वा । युगपत्समकमेव । विविधं ज्ञानावरणं मतिज्ञानादिभेदम् । दर्शनावरणं चतुर्विधम् । २विविधमित्यनेकरूपम् । तथान्तरायं दानान्तरायादिप्रकारम् । इत्थं कर्मक्षयमवाप्य ॥ २६८ ॥ (२६९) टीका - किं प्राप्तवानित्याह - शाश्वतमित्यादि । शाश्वतं लब्धात्मलाभम् । सर्वकालभावि 'तदेव भावयति - अनन्तमपर्यवसानम् । २अविद्यमानातिशयम् अनतिशयं, न ततः ४परमतिशयोऽन्योऽस्ति न तत्केनचिदतिशय्यत इत्यर्थः । अविद्यमानोपममनुपमं, तत्सदृशस्याभावात् । अविद्यमानमुत्तरं ज्ञानं यस्य तदनुत्तरम् । निरवशेषमात्मनः स्वरूपं सम्पूर्णं, सकलज्ञेयग्राहित्वात् । अविद्यमानप्रतिघातमप्रतिहतं सर्वतः पृथ्वीसमुद्रादावपि न प्रतिहन्यते । सम्प्राप्तः प्राप्तवानेवंविधं केवलज्ञानम् ॥२६९॥ मस्तकेति। भवति । कोऽसौ ? - ध्रुवो नाशः । कस्य ? - तालस्य - वृक्षविशेषस्य । कुतः ?मस्तकसूचिविनाशात् । तद्वत् तथा । कर्मविनाशो मोहनीयक्षये भवति रनित्यमिति ॥ २६७॥ (२६८ ) (वि०) छद्मस्थेति । छद्मस्थवीतरागः - क्षीणमोहः सोऽन्तमुहूर्तकालं यावदथ भूत्वा - स्थित्वा युगपद् - एककालं द्विविधावरणान्तरायकर्मणां ज्ञानदर्शनावरणान्तरायाख्यानां पञ्चचतुःपञ्चप्रभेदानां क्षयस्तमवाप्येति ॥ २६८ ॥ (२६९) (वि० ) इत्थं कर्मक्षयमवाप्य किं प्राप्तवानित्याह - शाश्वतमिति । 'सम्प्राप्तः केवलं ज्ञानमिति सम्बन्धः । कीदृशं केवलज्ञानम् ? - शाश्वतं - लब्धात्मलाभं सत् सर्वकालभावि । तथा अनन्तम्-अपर्यवसानम् । तथा अनतिशयम् - अविद्यमानातिशयम् । तथाऽनुपमम्-अविद्यमानोपमम् । तथा अनुत्तरम् - अविद्यमानमुत्तरम् । तथा निरवशेषं परिपूर्णत्वेनोपपत्तेः । तथा परिपूर्णं सकलज्ञेयग्राहि (२६८ ) ( अव० )–क्षपितकषायत्वात् । अन्तर्मुहूर्तकालं यावद्भूत्वा स्थित्वा । युगपदेककालं ज्ञानावरण ५ दर्शनावरण ४ अन्तरायाणां ५ क्षयमाप्य ॥२६८॥ (२६९) (अव० )—–'शाश्वतमनवरतभवनशीलत्वात् । अनन्तं क्षयाभावात् । तस्यातिशयितुमशक्यत्वात् । अनुपममपगतोपमानत्वात् । अनुत्तरमविद्यमानोत्तरत्वात् । निरवशेषं

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333