________________
११८
प्रशमरतिप्रकरणम्
शासनसामर्थ्येन तु सन्त्राणबलेन चानवद्येन । युक्तं यत्तच्छास्त्रं तच्चैतत् सर्वविद्वचनम् ॥१८८॥ जीवाजीवाः पुण्यं पापाश्रवसंवराः सनिर्जरणाः । बन्धो मोक्षश्चैते सम्यक् चिन्त्या नवपदार्थाः ॥१८९॥
(१८८) टीका-१यतः-शासनेत्यादि । शासनसामर्थ्येन तु अनुशानसमर्थमिदं द्वादशाङ्गं प्रवचनमतस्तेन शासनसामर्थ्येन संसारस्वभावमनुवदता तद्विपरीतं च मोक्षमार्ग दर्शयता निराबाधं परिरक्षता च शरणागतान् प्राणिनोऽनवद्येनोपायेन कश्चित् परिरक्षत्यन्यानुपघ्नन्,३ तथेदं शासनं न कस्यचिदुपघातकम् । युक्तमिदं प्रतिबद्धम्, यतः शास्त्रमुक्तेनार्थद्वयेन । तच्चैतच्छास्त्रं सर्वविदः सर्वज्ञस्य वचनमर्थद्वारेण क्षीणाशेषरागद्वेषमोहस्य नान्यस्येति ॥१८८॥
(१८९) टीका-तदेव सर्वज्ञवचनमुद्देशतो दर्शयन्नाह-जीवाजीवा पुण्यमित्यादि । जीवा इति सम्भवन्तः प्राणभाज उक्ताः । ते च द्रव्यभावभेदेन प्राणा द्विप्रकाराः। तत्र द्रव्यप्राणाः १पञ्चेन्द्रियाणि त्रिविधं बलं च उच्छ्छासनिःश्वासबलं तथायुरिति' ( )। भावप्राणास्तु ज्ञानदर्शनोपयोगाख्याः । एभिः प्राणैरजीविषुर्जीवन्ति जीविष्यन्ति चेति जीवाः । तद्विपरीतास्त्वजीवाः । पुण्यं सातादिद्विचत्वारिंशत्कर्मप्रकृतयः । पापं व्यधिकाशीतिः कर्मभेदानाम् । आश्रवः कायवाङ्मनोभिः कर्मयोग आत्मनः । एषामेवाश्रवाणां निरोधः संवरः। सह निर्जरणेन सनिर्जरणाः । निरुद्धष्वाश्रवद्वारेषु गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचरणयुक्तस्य तपोऽनुष्ठानात् कर्मनिर्जरणं भवतीति । मिथ्यादर्शनादयो बन्धहेतवः । तद्योगात् सकषायः सन्नात्मा कर्मणो ३योग्यान् दलानादत्ते स बन्धः । बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मक्षयो
(१८८) (वि०) शासनस्य-शिक्षणस्य सामर्थ्य-बलिष्ठता तेन । तुरवधारणे । सन्त्राणस्यपालनस्य बलं-सामर्थ्यं तेन । चः समुच्चये। उभयेन कथम्भूतेन ?-अनवद्येन-निर्दोषेण, युक्तं-सहितं यत्किमपि तच्छास्त्रम्, उच्यत इति शेषः । तच्च शास्त्रमेतत्-जगत्प्रसिद्धं सर्वविद्वचनंजिनोक्तमिति ॥१८८।। इति कथाधिकारः ॥११॥
(१८९) (वि०) इदमेव वचनं सझेपत आह-जीवाजीवा इति । जीवाःचैतन्यलक्षणाः १ अजीवा-धर्मास्तिकायादयः २ अत्र द्वन्द्वः, पुण्यं वक्ष्यमाणं ३ पापमपि ४,
(१८८) (अव०) शासनस्य' शिक्षणस्य सामर्थ्य बलिष्ठतानेन सन्त्राणस्य पालनस्य बलेन च उभयेन सहितं यत्तच्छास्त्रमुच्यते सिद्धान्तः, संसारभावमनुवदतां मोक्षं दर्शयतां सर्वविदामेतद्वचनम् ॥१८८॥
(१८९) (अव०)-बन्धः कर्मोपादानं, मोक्षः कर्माभावः ॥१८९॥