________________
प्रशमरतिप्रकरणम्
११७
शास्विति वाग्विधिविद्भिर्धातुः पापठ्यतेऽनुशिष्ट्यर्थः । त्रैङिति पालनार्थे विनिश्चितः सर्वशब्दविदाम् ॥१८६॥ यस्माद् रागद्वेषोद्धतचित्तान् समनुशास्ति सद्धर्मे ।
सन्त्रायते च दुःखाच्छास्त्रमिति निरुच्यते सद्भिः ॥१८७॥
(१८६) टीका-शास्त्रशब्दव्युत्पत्त्यर्थमाह-शास्विति वाग्विधिविद्भिरित्यादि । 'शासू अनुशिष्टौ' इति । वाग्विधिविदश्चतुर्दशपूर्वधराः । पापठ्यत इति अनुशासनेऽत्यर्थं पठ्यत इत्यर्थः । अनेकार्था धातव इत्यन्यस्मिन्नप्यर्थे वृत्तिरस्तीति तदर्शयति-अनुशिष्ट्यर्थ इति । १ 'त्रैङ् पालने' । विनिश्चितो विशेषेण नियतः । २सर्वशब्दविदां प्राकृतसंस्कृतशब्दप्राभृतज्ञानां विनिश्चित इत्यर्थः ॥१८६।।
(१८७) टीका-यस्माद्रागेत्यादि । शास्त्रनिर्वचनद्वारेण शब्दं संस्कारयति । रागद्वेषाभ्यां उद्धतमुल्बणं चित्तं येषां ते रागद्वेषोद्धतचित्तास्तान्२ सम्यगनुशास्ति । सद्धर्मे क्षमादिदशलक्षणके३ सद्धर्मविषयमनुशासनं करोति । सन्त्रायते च दुःखात् शारीरान्मानसाच्च परिरक्षति यस्मात्तस्माच्छास्त्रमभिधीयते । सद्भिर्यथान्यायवादिभिर्निश्चयेनोच्यते निरुच्यत इत्यर्थः ॥१८७॥
(१८६) (वि०) शास्त्रशब्दस्य व्युत्पत्त्यर्थमाह-शास्वितीति । शास्विति-'शासु अनुशिष्टौ 'इति वाग्विधिविद्भिः-चतुर्दशपूर्वधरैः धातुः पापठ्यते-अत्यर्थं पठ्यत इत्यर्थः । कीदृशः ?-अनुशिष्ट्यर्थः । त्रैङिति पालनार्थे विनिश्चितो-विशेषेण निर्णीतः । केषाम् ?सर्वशब्दविदां-प्राकृतसंस्कृतादिशब्दज्ञानां, विनिश्चित इति योग इति ॥१८६।।
(१८७) (वि०) पूर्वोक्तमर्थं व्यक्तीकुर्वन्नाह-यस्मादिति । यस्माद्-यतः कारणाद्रागद्वेषोद्धतचित्तान्-प्रीत्यप्रीतिक्रोडीकृतहृदयान् समनुशास्ति शिक्षयति-'विपरीतमशुभं मा कुरु, शुभं चानवरतं कुरु, ततस्ते धर्मः', इत्यादिरूपां शिक्षां ददाति इत्यार्याधुन 'शासु अनुशिष्टौ'अयं धातुर्व्यक्तीकृतः, तथा सन्त्रायते च-रक्षति, कान् ?-सद्धर्मे-सदाचारे स्थितानिति शेषः, कुतः ?दुःखात्, शास्त्रमिति निरुच्यते-निश्चितमभिधीयते तस्मादित्यत्र योगः ॥१८७।।
(१८६) (अव० )-शासूक् अनुशिष्टौ इति वाग्विधिविद्भिश्चतुर्दशपूर्वधरैः । विशेषण नियतो निर्णीतः । दैङ् त्रैङ् पालनार्थे । सर्वशब्दविदां संस्कृतप्राकृतादिशब्दविज्ञानाम् ॥१८६॥
(१८७) (अव०) रागद्वेषव्याप्तचित्तान् शिक्षयति विपरीतमशुभं मा कुरु अनवरतं शुभमविपरीतं कुरु' इत्यादिना । तथा सन्त्रायते रक्षति सदाचारे स्थितानिति शेषः । कुतो ? नरकादिदुःखात् ॥१८७॥