________________
११६
प्रशमरतिप्रकरणम्
यावत्परगुणदोषपरिकीर्तने व्यापृतं मनो भवति । तावद्वरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् ॥ १८४॥ शास्त्राध्ययने चाध्यापने च सञ्चिन्तने तथात्मनि च । धर्मकथने च सततं यत्नः सर्वात्मना कार्यः ॥ १८५ ॥
खात्राणि खनन्ति, इष्टकाश्च गालयन्ति, ग्रन्थींश्छिन्दन्ति, तालकान्युद्घाटयन्ति परं च छलयन्तीति चौरकथा । जनपदकथा सेतुजानि केतुजानि वा सस्यान्यस्मिन् जनपदे जायन्ते, १२ अस्मिन्नतिप्रभूतो गवां रसः, शालिमुद्गगोधूमादि वोत्पद्यतेऽत्र नान्यत्रेति जनपदकथा । एवमेता मनसापि नालोच्याः किमुत वाचा इति दूरात्परिहार्याः ॥ १८३॥
( १८४) टीका - अपि च- यावत्परेत्यादि । यावदिति कालपरिमाणम् । यावन्तं कालं परस्य गुणान् दोषांश्च परिकीर्तयत्युद्घाटयति तत्प्रवणव्यापारो भवति । परदोषोद्धट्टने व्यापारयति व्यग्रं मनः करोति, पैशुन्यात् कर्मबन्धकारि । तावदिति तावन्तं कालं वरं शोभनतरं निर्जरालाभात् । विशुद्धे ध्याने निर्मले धर्मे शुक्ले वा । व्यापृतमक्षणिकं मनः कृतमिति । ननु च परगुणोत्कीर्तनं न निन्द्यं ? उच्यते-अध्यात्मचिन्तापन्नस्य न तेनापि किञ्चित्प्रयोजनम् ॥ १८४॥
(१८५) टीका - विशुद्ध ध्यानप्रदर्शनायाह - शास्त्राध्ययने चाध्यापने चेत्यादि । शिष्यन्तेऽनेनोन्मार्गप्रस्थिता इति शास्त्रम् । शास्तीति शास्त्रम् कर्तृव्यापारविवक्षायाम् । तस्याध्ययनमपूर्वग्रहणं पूर्वगृहीतानुचिन्तनं वाचनादानमित्यादि । अध्यापनग्रहणात् सञ्चिन्तने सञ्चिन्त्य पश्चाद्दोषादिविशुद्धमध्यापयति । 'पर्यालोचने चात्मनि 'किमद्य मया कृतं शास्त्रोक्तं किं वा नो कृतमिति' । दशविधधर्माख्याने च सततं यत्नः सर्वात्मना मनोवाक्कायैः कार्यः ॥१८५॥
(१८४ ) ( वि० ) अपि च- यावदिति । यावन्तं कालं परेषां - आत्मव्यतिरिक्तानां गुणदोषयोः प्रतीतयोः परिकीर्तनं तत्र व्यावृतं - व्याकुलं मनः - अन्तःकरणं भवति तावद्वरं, वर्तते इति शेषः । विशुद्धे ध्याने व्यग्रं मनः कर्तुमिति ॥ १८४॥
(१८५) (वि०) तच्च ध्यानमीदृशम् - शास्त्राध्ययन इति । शास्त्राध्ययने चआचारादिश्रुतपाठे अध्यापने च- पाठने, सञ्चिन्तने, क्व ? - आत्मनि, पदव्यत्ययादात्मनि सञ्चिन्तने आत्मना शास्त्रचिन्तनिकायामित्यर्थः । धर्मकथने - धर्मदेशनायाम् । चकाराः समुच्चयार्थाः । सततम्अनवरतं, यत्नः-आदरः, सर्वात्मना - सर्वादरेण कार्य:- कर्तव्य इति ॥१८५॥
(१८४) (अव० )–यावत्कालम्, अध्यात्मचिन्तापन्नस्य, न तेनापि परदोषगुणकीर्तनव्यापारेण किञ्चित्प्रयोजनं, तावत्कालं व्यग्रं व्यापृतम् ॥ १८४॥
(१८५) (अव० ) – आचारादिश्रुतपाठेऽपरेषां पाठने चाद्य मया किं कृतमित्यादि स्वात्मनि सञ्चिन्तने ॥ १८५ ॥