________________
प्रशमरतिप्रकरणम्
११५
१संवेजनी च निवेदनीं च धर्त्या कथां सदा कर्यात् । स्त्रीभक्तचौरजनपदकथाश्च दूरात् परित्याज्याः ॥१८३॥
श्रोतृजनश्रोत्रमनःप्रसादजननी। यथा जननी माता हितकारिणी सदुपदेशदायिनी स्वापत्यानां श्रोत्रमनसी प्रसादयति परितोषयति तथैषापीति सम्बन्धः ॥१८२॥
(१८३) टीका-चतुर्विधा कथा प्रस्तुतेति तच्छेषमाह-संवेजनीमित्यादि । १सम्यग्वेज्यते भयं ग्राह्यते श्रोता यया सा २संवेजनी कथा । नरकगतावुष्णा वेदनाः शीताश्च, न चास्त्यक्षिनिमेषमात्रमपि तस्या वेदनाया विच्छेदः । तत्र च तादृशीं तावत् वेदनामनुभवतां जघन्येन दशवर्षसहस्राण्यायुरुत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणीति । तिर्यग्योनावपि शीतोष्णक्षुत्तृष्णातिगुरुभारसन्तापजं दुःखं वाहनताडनदमनच्छेदनादि चेति । मानुषेष्वपि काणखञ्जवामनजडबधिरानयनकुब्जविकृताकृतित्वानि ज्वरकुष्ठशोषकासातिसारहृद्रोगवेदनाश्च । तथा प्रियविप्रयोगाप्रियसम्प्रयोगेप्सितालाभदारिद्यदौर्भाग्यदौर्मनस्यवधबन्धनाभियोगादि दुःखानुभवः । देवेषु चोत्कर्षविशेषदर्शनादात्मनश्च तद्धाने:, तथा बलवता देवेनाभियोगादन्येऽल्पपुण्याः करिवृषभाश्वमयूरादिरूपाणि कारिताः सन्तो वाह्यन्ते प्रतिसेव्यन्ते च, तथा च्यवनकाले आयुषि षण्मासावशेषे उत्पत्तिस्थानानि बीभत्सानि विकृताकृतीन्यवधिनावलोक्य महदशर्म भजन्ते । अतश्चतुर्विधादपि संसारादुद्विजते मोक्षार्थमेव च घटत इति । निर्वेदं नीयते यया कथया कामभोगेषु सा निर्वेदनी इत्वराः कामभोगा न तृप्तिमाधातुमात्मनः प्रत्यलाः । सदा क्लिन्नश्च स्त्रीव्रणो दुर्गन्धिरशुचिरत्यन्तजुगुप्सितस्तत्र चारतिरित्येवं पामन इव १°कण्डूपरिगतः कण्डूयन् मोहोदयात्सुखमिति मन्यते । अतो निविण्णः परित्यज्य कामभोगान् निःसङ्गः सिद्धिवध्वाराधने प्रवर्तत इति । एवमेतां संवेजनीं निर्वेदनीं च धर्त्या कथां सदा कुर्यात्, धर्मादनपेतामित्यर्थः । स्त्र्यादिकथाश्च दूरात् परित्याज्याः । तत्र स्त्रीकथा ११रूपवयोलावण्यवेषभाषाचङ्क्रमणानि योषितां वर्णयति यया सा स्त्रीकथा । भक्तमाहारस्तत्कथा, ओदनव्यञ्जनखण्डखाद्यादिपरिनिष्ठान्ता भक्तकथा । चौरा मलिम्लुचा अमुना प्रकारेण अन्ये त्वत्रार्यायां चत्वार्यपि पदानि प्रथमाविभक्त्यन्तानि व्याख्यान्ति । संवेदनीमित्यार्यायां कुर्यादिति क्रियायाः कर्मपदानि योजयन्ति ॥१८२॥
(१८३)(वि०) संवेदनी-नरकादिदुःखकथनेन कामेभ्यो निवर्तनी ३ निर्वेदनी-भवत्रासान्मोक्षाभिलाषप्रवर्तिकाम् ४ इति चतुर्विधां धकथां कुर्यादिति, स्त्र्यादिकथा ४ दूरतस्त्याज्या इति सुगममिति ॥१८३॥
(१८३) (अव०) सम्यग् विवेच्यते नरकादिदुःखेभ्यो भयं ग्राह्यते यया सा संवेजनी । निर्वेदं कामभोगेभ्यो यया सा एवमेताम् ॥१८३॥