________________
११४
प्रशमरतिप्रकरणम्
१आक्षेपणीं विक्षेपणी विमार्गबाधनसमर्थविन्यासाम् । श्रोतृजनश्रोत्रमनःप्रसादजननीं यथा जननी ॥१८२॥
उपचयः अपूर्वमपूर्वमधीते प्रवचनम् । व्यतिकरश्च संविग्नैः संविग्नाः संसारभीरवः तैः सह सम्पर्को यथोक्तक्रियानुष्ठायिभिर्व्यतिकर: संसर्गः । एभिर्वैराग्यमार्गस्थैर्यं भवति । न केवलं १वैराग्यमार्गे सद्भावविषया बुद्धिस्तस्याश्च भवति स्थैर्यम् । सद्भावा जीवादयः । एते च यथा भगवद्भिरुक्तास्तथेति स्थिरीभवति बुद्धिः । भावः क्षयोपशमजं दर्शनादि भगवत्सु वा तीर्थकृत्सु साधुषु वा 'एते वन्दनीयाः' इति धी:, २स्थैर्य..........सा धीः । धियः स्थैर्य जनयन्त्येतानीत्यर्थः ॥१८१।।
(१८२) टीका-एतेष्वेव 'च धीस्थैर्यमिच्छता चतुर्विधा धर्मकथाभ्यसनीयेत्याहआक्षेपणीमित्यादि । आक्षिपत्यावर्जयत्यभिमुखीकरोति या २सात्र आक्षेपणी कथा शृङ्गारादिप्राया । विक्षिपति भोगाभिलाषाद्या कामभोगेषु वैमुख्यमापादयति सा विक्षेपणी । विमार्गः सम्यग्दर्शनादित्रयविपरीतः सुगतादिप्रदर्शितस्तस्य बाधनं दोषवत्त्वख्यापनम् । विमार्गबाधने समर्थः शक्तो विन्यासो रचना यस्याः सा विमार्गबाधनसमर्थविन्यासा । शृणोतीति श्रोता जनो लोकः श्रोतृजनस्तस्य श्रोत्रं मनश्च तयोः प्रसादो हर्षो जन्यते यया सा
व्यतिकर:-परिचयः, कैः सह ?-संविग्नैः-उद्यतविहारिभिः साधुभिः । तथा वैराग्ये-विरागतायां मार्गः-पन्थाः स तथा, तथा सन्तो-विद्यमाना भावा-जीवादिपदार्थाः, भाव:-क्षायोपशमादिकः, तत्र धी:-बुद्धिः तस्यां स्थैर्यजनकानि-स्थिरतोत्पादकानि भवन्तीति शेषः ॥१८१॥ धर्माधिकारः ॥१०॥
(१८२) (वि०) एतानि धर्मस्थैर्यजनकानीच्छता चतुर्विधा धर्मकथा अभ्यसनीयेत्यार्याद्वयेनाह-आक्षेपणीति । संवेदनीमिति । आक्षिपति-आवर्जयति-अभिमुखीकरोतीत्याक्षेपणिः कथा, विक्षिपति परदर्शनात् क्षोदाक्षमत्वेन वैमुख्यमापादयति विक्षेपणिः । ततः समाहारद्वन्द्वः । ताम् कर्यादिति वक्ष्यमाणार्याक्रियायोगः । इति कथाद्वयम्, अत्राणिप्रत्यय औणादिकः । ततः प्रत्यासत्त्या व्याख्या, तत्र विक्षेपण्या विमार्गेत्यादिना आक्षेपण्यां श्रोतृजनेत्यादिना च, ततो विमार्गा-मिथ्यामार्गा मोक्षविपरीतास्तस्य बाधनं-दोषवत्त्वख्यापनं तत्र समर्थः-शक्तो विन्यासो-रचना यस्यास्तां, शृणोतीति श्रोता स चासौ जनश्च श्रोतृजनः तस्य श्रोत्रमनसी-श्रवणचित्ते तयोः प्रसादो-हर्षो जन्यते यया सा तथा । जननी-मातुरिव हितकारिणी सदुपदेशदायिनी स्वापत्यानां, तथैषाऽपि भव्यानामिति भावना ।
(१८२) (अव०)-आक्षिप्यन्ते धर्मं प्रत्यभिमुखाः प्राणिनो यया सा आक्षेपणिः । विक्षिप्यन्ते पराः परदेवादिदोषकथनेन प्रेर्यन्ते प्राणिनो यत्र सा विक्षेपणी । विमार्गा जैनमार्गादन्ये एकान्तमतावलम्बिनस्तेषां बाधने समर्था पदरचना यस्याः सा । श्रोता चासौ जनश्च तस्य श्रोत्रमनसोस्तयो:२ प्रसादजननी यथा जननी माता चतुर्विधा कथा प्रस्तुता ॥१८२॥