________________
प्रशमरतिप्रकरणम्
११३
ममकाराहङ्कारत्यागादतिदुर्जयोद्धतप्रबलान् । हन्ति परीषहगौरवकषायदण्डेन्द्रियव्यूहान् ॥१८०॥ प्रवचनभक्तिः श्रुतसम्पदुद्यमो व्यतिकरश्च संविग्नैः । वैराग्यमार्गसद्भावभावधीस्थैर्यजनकानि ॥१८१॥
एते च संसारभ्रमणस्य मूलं दृढं रूढा घनाश्च सुष्ठ दृढं रूढा जाता घना बहुलाः प्रभूतकर्मांशाः । अथवा यथासङ्ख्यं दृढो रागः, रूढो द्वेषः, घनो मोहः । एवंविधानामपि स्वल्पेनैव कालेन भवत्युपशमः क्षयो वा ॥१७९।।
(१८०) टीका-ममकारेत्यादि । ममकारो माया लोभश्च । अहङ्कारो मानः क्रोधश्च । तयोर्ममकाराहङ्कारयोस्त्यागात् । किं भवतीत्याह-अतिदुर्जयोद्धतप्रबलान् अतीव दुर्जयानुद्धतांश्च सावष्टम्भान् प्रकृष्टफलांश्च । हन्ति विनाशयति । परीषहगौरवकषायदण्डेन्द्रियव्यूहान् । परीषहाः क्षुत्पिपासादयः, गौरवमृद्ध्यादिः, कषायाः क्रोधादयः, दण्डाः मनोवाक्कायाख्याः, इन्द्रियाणि स्पर्शनादीनि, एषां व्यूहाः समूहाः । चक्रव्यूहगरुडव्यूहादिवत्त व्यूहा ग्राह्याः । तान् हन्ति विजयतेऽभिभवतीत्यर्थः ॥१८०॥
(१८१) टीका-यथा वैराग्यमार्गे स्थैर्यं भवति तथा च यतत इत्याह-प्रवचनभक्तिरित्यादि । प्रोच्यन्ते येन जीवादयस्तत्प्रवचनम्, तत्र भक्तिः सेवा तदनुध्यानपरता सङ्घभट्टारको वा प्रवचनं प्रवक्तीति । श्रुतसम्पदि उद्यम उत्साहः श्रुतमागमस्तस्य सम्पद् दृढरूढघनानां, तत्र दृढा-दुर्भेदाः रूढाः-प्राप्तस्थैर्याः घना-बहुलाः तेषामपि भवत्युपशमोऽल्पकालेनेति व्यक्तं, साधोरिति प्रकृतमिति ॥१७९॥
(१८०) (वि०) हन्तीति क्रिया । कः ?-साधुरिति शेषः । कान् ?-परीषहादीन् कृतद्वन्द्वान् पूर्वोक्तस्वरूपान् । कीदृशान् ?-अतिदुर्जयान्-अतीव दुःखाभिभवनीयान् । उद्धताःसावष्टम्भाः प्रबला:-प्रकृष्टसामर्थ्याः, ततः पदत्रयस्य कर्मधारयः तान् । कुतः ?-ममकाराहङ्कारत्यागात् पूर्वव्याख्यातादिति ॥१८०॥
(१८१) (वि०) यथा वैराग्यस्थैर्यं स्यात्तथा यतेतेत्याह-प्रवचनेति । प्रवचनभक्ति:चतुर्विधसङ्घप्रीतिः । तथा श्रुतसम्पदि-विशिष्टागमसम्पत्तावुद्यमः-पठनादावुत्साहः स तथा । तथा
(१८०) (अव०)-माया लोभश्च, मानः क्रोधश्च, उद्धता: सावष्टम्भाः, प्रबलाः प्रकृष्टसामर्थ्याः, विनाशयति कः ? साधुरिति योगः ॥१८०॥
(१८१) (अव०) व्यतिकरः सम्पर्कः, विरक्तता पूर्वमहर्षिसमाचीर्णक्रियाकलापपरता, सद्भावा= जीवादयः एतानि धर्मस्थैर्यजनकानि ॥१८१॥