________________
११२
प्रशमरतिप्रकरणम्
अध्यात्मविदो मूच्र्छा परिग्रहं वर्णयन्ति निश्चयतः । तस्माद् वैराग्येप्सोराकिञ्चन्यं परो धर्मः ॥१८॥ दशविधधर्मानुष्ठायिनः सदा रागद्वोषमोहानाम् । दृढरूढघनानामपि भवत्युपशमोऽल्पकालेन ॥१७९॥
करोति न कारयति नानुमन्यते । एवं वाचा कायेन चेति । एते नवभेदाः। औदारिकं मानुष्यतिर्यस्त्रीषु । तत्र मनोवाक्कायैः कृतकारितानुमतिभिश्च विरतिरिति नवकम् । तदेतद् ब्रह्माष्टादशभेदं भवति ॥१७७।।
(१७८) टीका-आकिञ्चन्यमधिकृत्याह-अध्यात्मेत्यादि । अध्यात्मशब्देनात्मन्येव व्यापारः, 'कथमयमात्मा बध्यते कथं वा मुच्यते इति' 'तदध्यात्म विदन्तीत्यध्यात्मविदः । ते २विदितपराः परिग्रहं मूmलक्षणं वर्णयन्ति । मूर्छा गाय॑म् । निश्चयनयाभिप्रायेणात्मनः प्रतिविशिष्टः परिणामः परिग्रहशब्दवाच्यः । यस्मादेवंलक्षणकः परिग्रहस्तस्माद्वैराग्यमाप्तमिच्छता । आकिञ्चन्यं परो धर्मः, न क्वचिन्मूर्छा कर्तव्येति यावत् ॥१७८॥
(१७९) टीका-धर्मानुष्ठाने फलं दर्शयति-दशविधेत्यादि । दशप्रकार: १क्षमादिको धर्मः तदनुष्ठायिनः तदासेविनः । सदैवानवरतम् । रागद्वेषमोहानामुपशमो भवति ।
वाचा कायेन चेति विरतिरिति नवकम्, औदारिकादपि-मानुषतिर्यक्स्त्रीसम्भवात् विरतिरिति नवकं, तथा तद् ब्रह्माष्टादशविकल्पमिति ।।१७७।।
(१७८) (वि०) आकिञ्चन्यमाह-अध्यात्मेति । अध्यात्मम्-अध्यात्मक्रियामागमं वा विदन्ति-जानन्तीत्यध्यात्मविदः-तीर्थकरादयो मूर्छा-गृद्धि परिग्रहं वर्णयन्ति-प्रतिपादयन्ति निश्चयतः-परमार्थतः, तस्मात्-ततः कारणाद्वैराग्येप्सो:-विरागताभिलाषिणः साधोराकिञ्चन्यंमूच्छोरूपपरिग्रहपरिहारस्वभावं पर:-प्रधानो धर्म इति ॥१७८।।
(१७९) (वि०) अथास्य धर्मस्य फलमार्याद्वयेनाह-दशविधेति । ममकारेति । दशविधधर्मानुष्ठायिन:-क्षान्त्यादिदशधाश्रेय:परिपालकस्य सदा-सर्वदा रागदोषमोहानां कृतद्वन्द्वानां
(१७८) (अव०)-१निश्चयनयाभिप्रायेण वैराग्यमिच्छतः । आकिञ्चन्यं मूर्छारूपपरिग्रह परिहारस्वभावम् । परः प्रधानः ॥१७८॥
(१७९) अव०-१सदासेविन: । दृढानां= वज्रदुर्भेद्यानां रूढानां-चिरकालावस्थितिप्राप्तस्थैर्याणां घनाना=बहलानां एवंविधानामपि ॥१७९॥