________________
प्रशमरतिप्रकरणम्
१४
१११
१०
२चित्तविशोधनात् प्रायश्चित्तमालोचनादि दशविधं कृतातीचारमलप्रक्षालनार्थम् । एकाग्रचित्तनिरोधो ध्यानमामुहूर्तात् । तत्रार्तरौद्रे व्युदसनीये । आर्तं चतुर्विधं अमनोज्ञविषयसम्प्रयोगे ४तद्विगमार्थं चित्तनिरोधः । शिरोरोगादिवेदनायाश्च विप्रयोगार्थो मनोनिरोधः । मनोज्ञविषयसम्प्रयोगेऽविप्रयोगार्थो मनोनिरोधः । चन्दनोशीरादिजनितसुखवेदनायाश्चाविप्रयोगार्थश्चित्तनिरोधः आर्तध्यानम् । रौद्रं हिंसानुबन्धि अनृतानुबन्धि स्तेयानुबन्धि विषयसंरक्षणं चेति । एतयोस्त्यागस्तपः । धर्म्यं शुक्लं च ध्यानमनुष्ठेयम् । धर्मादनपेतं धर्म्यं चतुर्विधम् - आज्ञाविचयमपायविचयं विपाकविचयं संस्थानविचयं चेति । शुक् शोको दुःखं शारीरं मानसं चेति तल्लुनाति विच्छेदयतीति शुक्लम् । पृषोदरादिपाठाच्छब्द संस्कारः । तच्चतुर्विधं - पृथक्त्ववितर्कं सविचारं, एकत्ववितर्कमविचारं, सूक्ष्मक्रियमप्रतिपाति, व्युपरतक्रियमनुवर्तीति । व्यापृतभावो वैयावृत्त्यम्, आचार्योपाध्यायादीनां भक्तपानवस्त्रपात्रादिना दशानामुपग्रहशरीरशुश्रूषा चेति । विनीयते येनाष्टविधं कर्म स विनयः ज्ञानदर्शनचारित्रोपचारभेदः । तत्रोपचारविनयो विनयार्हेषु अभ्युत्थानमासनदानाञ्जलिप्रग्रहदैण्डकग्रहणचरणप्रक्षालनमर्दनादि । व्युत्सर्गोऽतिरिक्तोपकरणसंसक्तभक्तपानादेरुज्झनम् । अभ्यन्तरस्य १२ मिथ्यादर्शनकषायादेरपाकरणम् । स्वाध्यायः पञ्चधा - वाचना प्रच्छना अनुप्रेक्षा आम्नायः धर्मोपदेशश्च । तत्र वाचना आलापकदानं, सञ्जातसन्देहप्रच्छनं १३ अनुप्रेक्षा मनसा परिवर्तनमागमस्य, आम्नायो`ऽनुयोगकथनं, धर्मोपदेश आक्षेपणी विक्षेपणी संवेदनी निर्वेदनी चेति कथा धर्मोपदेशः । एवमभ्यन्तरमपि षोढा तपः || १७६ ||
दिव्यात्कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम् । औदारिकादपि तथा तद् ब्रह्माष्टादशविकल्पम् ॥१७७॥
(१७७) टीका - सम्प्रति ब्रह्मचर्यप्रतिपादनायाह - दिव्यात्कामेत्यादि । दिव्यं भवनपतिव्यन्तरज्योतिष्कविमानवासिदेव्यः, ताभ्यो विरतिस्त्रिविधं त्रिविधेनेति । मनसा न
दशधा १। ध्यानं चतुर्द्धा, तत्रार्तरौद्रत्यागेन धर्मशुक्लध्यानविधानं, ततः पदद्वयस्य द्वन्द्वः २। वैयावृत्त्यविनयौ गुरुभक्तदानादि-गुर्वभ्युत्थानादिकरणरूपौ ३-४ तथोत्सर्गः - कायोत्सर्गः ५। स्वाध्यायो-वाचनादिः पञ्चधा ६ । इति तपः षट्प्रकारमाभ्यन्तरं भवतीति ॥१७६॥
॥ १७७॥
(१७७) (वि०) ब्रह्म प्राह- दिव्यादिति । दिव्यात्-भवनपत्यादिदेवीसम्भवात् कामरतिसुखात्-मदनासक्तिसातात्, त्रिविधं त्रिविधेन-म - मनसा न करोति, न कारयति, नानुमन्यते, एवं
(१७७) अव०-दिव्याद्-भवनपत्यादिदेवीसम्भवात् । मदनासक्तिसातात् । निवृत्तिः