________________
११०
प्रशमरतिप्रकरणम्
अनशनमूनोदरता वृत्तेः सक्षेपणं रसत्यागः । कायक्लेशः संलीनतेति बाह्यं तपः प्रोक्तम् ॥१७५॥ प्रायश्चित्तध्याने वैयावृत्त्यविनयावथोत्सर्गः । स्वाध्याय इति तपः षट्प्रकारमभ्यन्तरं भवति ॥१७६॥
(१७५) टीका-तपः सम्प्रत्युच्यते-अनशनमित्यादि । तत्रानशनं चतुर्थभक्तादि षण्मासान्तं, तथाऽपरं भक्तप्रत्याख्यानम्, इङ्गिनीमरणं, पादपोपगमनमिति । ऊनोदरता द्वात्रिंशतः कवलेभ्यो यथाशक्ति न्यूनयत्याहारं यावदष्टकवलाहार इति । वृत्तिर्वर्तनं भिक्षा तस्याः सङ्क्षपणं परिमितग्रहणम् दत्तिभिर्भिक्षाभिश्च । रसत्यागः रसाः क्षीरदधिनवनीतघृतगुडादिप्रभृतयो विकृतयस्तासां त्यागः । कायक्लेश: कायोत्सर्गोत्कटुकासनातापनादिः । १संलीनता संलीन आगमोपदेशेन, तद्भावः संलीनता इन्द्रियनोइन्द्रियभेदात् द्विधा, इन्द्रियैः संलीनः संहृतेन्द्रियव्यापारः कूर्मवत्, यथाङ्गानि स्वात्मन्याहरति कूर्मः, तथेन्द्रियाणि आत्मन्याहृत्य तिष्ठति साधुः रागद्वेषहेतूभ्यः शब्दादिभ्यो निवर्त्य व्यवस्थापितेन्द्रियः इन्द्रियसंलीनः । नोइन्द्रियं मनः क्रोधादयश्च । आरौिद्रध्यानरहिते मनसि नोइन्द्रियसंलीनः । क्रोधादीनामुदयनिरोधः उदयप्राप्तानां च वैफल्यापादनं नोइन्द्रियसंलीनता। षोढा विभक्तं बाह्यं तपः परोपलक्ष्यत्वाद्वाह्यमुच्यते ॥१७५॥
(१७६) टीका-१अभ्यन्तरतपोनिरूपणायाह–प्रायश्चित्तेत्यादि । प्रायो बाहुल्येन __ (१७५) (वि०) तत्र देशतोऽनशनं चतुर्थभक्तादि षण्मासान्तं, तथा अपरं सर्वतो भक्तप्रत्याख्यानमिङ्गिनीमरणं पादपोपगमनं चेति । ऊनोदरता-द्वात्रिंशत्कवलेभ्यो यथाशक्ति न्यूनयत्याहारं यावदष्टकवलाहारः २, अत्र गाथा
अप्पाहार ८ अवड्डा' १२ दुभाग १६ पत्ता २४ तहेव किंचूणा ३१ । अट्ठदुवालससोलसचउवीस तहेक्कतीसा य ॥ (अल्पाहारापार्धद्विभागप्राप्ताः तथैव किञ्चिदूनाः । अष्ट-द्वादश-षोडश-चतुर्विंशतयस्तथैकत्रिंशच्च ॥) (अद्वारस सहससीलंगरह गाहा-४)
वृत्तिः-वर्तनं भिक्षा तस्याः सङ्खपणं-मयैतावत्सु गृहादिषु भिक्षा अद्य ग्राह्या ३ । रसत्यागो-दुग्धादिपरिहार: ४। कायक्लेश:-केशोत्पाटनादि: ५। संलीनता-इन्द्रियनोइन्द्रियसंवृतत्वं ६। बाह्यं तपः प्रोक्तम् इति ॥१७५।।
(१७६) (वि० ) अथाभ्यन्तरमाह–प्रायश्चित्तेति । प्रायश्चित्तं-कृतातीचारस्यालोचनादिदानं (१७५) अव०-१इन्द्रियसंलीनता, नोइन्द्रियसंलीनता ॥१७५॥