________________
प्रशमरतिप्रकरणम्
१०९
अविसंवादनयोगः कायमनोवागजिह्मता चैव । सत्यं चतुर्विधं तच्च जिनवरमतेऽस्ति नान्यत्र ॥१७४॥
हिरण्यसुवर्णादि, इन्द्रियाणि स्पर्शनादीनि, तद्विषयं सुखम् । एषां त्यागादिन्द्रियसम्बन्धी सुखत्यागः, प्राप्तेषु विषयेषु स्पर्शादिषु माध्यस्थ्यम् । त्यक्तभयविग्रहः साधुः, भयमिहपरलोकादानादि सप्तविधं, विग्रहः शरीरं तस्य त्यागो निष्प्रतिकर्मशरीरता, कलहद्वन्द्वादिर्वा विग्रहः । त्यक्तात्मा २असंयमपरिणतिलक्षण आत्मा त्यक्तः । अष्टविधग्रन्थविजयप्रवृत्तो निर्ग्रन्थः । त्यक्ताहङ्कारममकार इति अरक्तद्विष्ट इत्यर्थः ॥१७३।।
(१७४) टीका-सत्यमधिकृत्याह-अविसंवादेत्यादि । विसंवादनमन्यथास्थितस्यान्यथाभाषणं गामश्वं अश्वं वा गामिति भाषते, पिशुनो 'चान्यथा चान्यथा च व्युद्ग्राह्य प्रीतिच्छेदनं करोति विसंवादयति । विसंवादनेन योगः सम्बन्धः न विसंवादनयोगः अविसंवादनयोगः, सत्यं यथादृश्यमानवस्तुभाषणम् । कायेनाजिह्मता जिह्मः कुटिलो मलीमसः, कायेनान्यवेषधारितया प्रतारयति । न जिह्मोऽजिह्मः द्वितीयः सत्यभेदः । मनसा वाऽजिह्मता सत्यं, मनसा प्रागालोच्य भाषते करोति वा, प्रायः न तादृगालोचयति जिह्मेन येन परः प्रतार्यते, एष तृतीयो भेदः । वागजिह्मता च सत्यं, जिह्मा वाक् सद्भूतनिह्नवः असद्भूतोद्भावनं कटुकपरुषसावद्यादि चेति चतुर्थो भेदः । एतच्च जैनेन्द्र एव मते, नान्यत्र सत्यमिति ॥१७४॥
कीदृशः ?-त्यक्तभयविग्रहः-परिहतभीतिकलहः, तथा त्यक्तो-विषयादिपरिहारेण परिहृत आत्मास्वदेहो येन स तथा, निर्ग्रन्थः-परिहतद्रव्यः, तथा त्यक्ताहङ्कारममकार इति प्राग्वदिति ॥१७३||
(१७४) (वि०) सत्यमाह-अविसंवादनेति । विसंवादनम्-अन्यथा स्थितस्यान्यथात्वभाषणं, गां अश्वं अश्वं गामिति भाषते, तेन योगः-सम्बन्धो, न विसंवादनयोगोऽविसंवादनयोगः । सत्यं-यथादृश्यमानवस्तुभाषणं, तथा कायमनोवाचामजिह्मता-अकुटिलतेति समासः । सत्यं चतुर्विधं जिनवरमतेऽस्ति नान्यत्रेति व्यक्तम् ॥१७४॥
निर्लोभात्मेति भावः ॥१७३॥
(१७४) (अव० )-१यद्यस्याग्रे प्रतिपन्नमङ्गीकारादिना तत्तथैव सम्पादनमविसंवादनयोगः । अजिह्मता-अवक्रता । सत्यं चतुर्भेदं यथादृश्यमानवस्तुभाषणम्(१) । तथा काय( २ )मनो( ३ )वाचाम् (४) अकुटिलता ॥१७४॥ ।