________________
१०८
प्रशमरतिप्रकरणम्
पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डवयविरतिश्चेति संयमः सप्तदशभेदः ॥१७२॥ बान्धवधनेन्द्रियसुखत्यागात् त्यक्तभयविग्रहः साधुः ।
त्यक्तात्मा निर्ग्रन्थस्त्यक्ताहङ्कारममकारः ॥१७३॥ विधिनाऽनुष्ठेयम् । भावशौचं तु निर्लोभता । ६लोभकषायेण रञ्जितो हि दुःप्रक्षालयति, तत्प्रक्षालनं च परमार्थतो भावशौचमिति ॥१७१।।
(१७२) टीका-संयममधिकृत्याह-पञ्चाश्रवादित्यादि । सम्यगुपरमः पापस्थानेभ्यः संयमः सप्तदशप्रकारः । पञ्चाश्रवाः प्राणातिपातमृषाभाषणादत्तादानमैथुनपरिग्रहाः कर्मादानहेतवस्तेभ्यो विरमणं संयमः । पञ्चेन्द्रियाणि स्पर्शनादीनि तेषां निग्रह: नियमनं निरोधः । शब्दादिषु गोचरप्राप्तेष्वरक्तद्विष्टता माध्यस्थ्यम् । कषः संसार: कष्यते यत्र जीवः स्वकृतैः कर्मभिः कदर्थ्यते पीड्यते तस्य आयाः प्राप्तिहेतवः क्रोधादयश्चत्वारस्तेषां जयोऽभिभव उदयनिरोधः, उदितानां वा विफलतापादनम् । दण्डा मनोवाक्कायाख्याः । अभिद्रोहाभिमानेादिलक्षणो मनोदण्ड: । हिंस्रपरुषानृतादिलक्षणो वाग्दण्ड: । धावनवल्गनप्लवनादिरूपः कायदण्डः । एभ्यो विरतिनिवृत्तिः । एवमेष संयमः सप्तदशभेदो भवति । आर्षे त्वन्येन क्रमेणायमेवार्थो निबद्धः । पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियेषु संयमः । तथा पुस्तकाद्यपरिग्रहः अजीवकायसंयमः। प्रेक्षोपेक्षाप्रमार्जनापरिष्ठापनसंयमः मनोवाक्कायसंयम इति ॥१७२।।
(१७३) टीका-त्यागमधिकृत्याह-बान्धवेत्यादि । बान्धवाः स्वजनकाः, धनं
(१७२) (वि०) संयममाह-पञ्चेति । पञ्चभ्यः प्राणातिपातादिभ्यः आश्रवः-कर्मग्रहणं तस्माद्विरमणं-विरतिः, पञ्चेन्द्रियनिग्रहः कषायजयः दण्डत्रयविरतिश्चेति पदत्रयमपि सुगमम् । संयमः सप्तदशभेदः, पृथिव्यादिरक्षणरूपो वेति ॥१७२।।
(१७३) (वि०) त्यागमाह-बान्धवेति । बान्धवाः-स्वजनाः धनं-कनकादि इन्द्रियसुखं-शब्दादिसातं तानि तथा तेषां त्यागः । तस्मात्किमित्याह-साधुः-यतिर्भवतीति शेषः ।
(१७२ ) (अव०)-'पृथिव्यादिरक्षणरूपो वा संयमः ॥१७२॥ (१७३) (अव०)-१परिहृतभीतिकलहः । त्यक्तो विषयादिविनिवृत्तेरात्मा येन ।