________________
प्रशमरतिप्रकरणम्
१०७
यद् द्रव्योपकरणभक्तपानदेहाधिकारकं शौचम् । तद् भवति भावशौचानुपरोधाद्यत्नतः कार्यम् ॥१७१॥
न चामुं धर्ममन्तरेण 'मोक्षावाप्तिः । न च मोक्षावाप्तिमन्तरेणैकान्तिकात्यन्तिकादिसुखलाभ इति । तस्मादृजुना भवितव्यमालोचनादाविति ॥१७०॥
(१७१) टीका-शौचमधिकृत्याह-यद्रव्योपकरणेत्यादि । द्विविधं शौचं द्रव्यभावभेदात् । तत्र द्रव्यशौचं 'बाह्यम् । द्रव्यम् सचेतनमचेतनं वा शैक्षादि ।
अट्ठारस पुरिसेसु वीसं इत्थीसु दस नपुंसेसु । पव्वावणे अणरिहा २अणला अह एत्तिया भणिया ॥१॥ (अष्टादश पुरुषेषु विंशतिः स्त्रीषु दश नपुंसकेषु ।
प्रव्राजनेऽनर्हाः अनला अथैतावन्तो भणिताः ।) इत्यादि । सदोषत्वात्त्याज्यम् । उपकरणमुपकारि ज्ञानादीनाम् । तच्चोद्गमादिशुद्धं शुचि भवति, अन्यथाऽशुचीति । तथा भक्तपानमप्युद्गमादिदोषरहितं शुचि, अन्यथाऽशुचीति । देहशौचं तु पुरीषाद्युत्सर्गपूर्वकं निर्लेपनं निर्गन्धं चेति । एतानि प्रयोजनान्यधिकृत्य यत्प्रवृत्तं ४देहाधिकारकं तद्भवतीति तत् कार्यं कर्तव्यं भवति । भावशौचस्यानुपरोधादबाधनात् । यत्नतः५ परीक्ष्य सचेतनमितरद्वा उपकरणादि मलप्रक्षालनादिष्वपि प्रवचनोक्तेन
(१७१) (वि०) शौचमाह-यदिति । यच्छौचं द्रव्योपकरणभक्तपानदेहाधिकारकं तद्भवति कार्यं भावशौचानुपरोधादिति सम्बन्धः । तत्र द्रव्यरूपं-पुद्गलात्मकं तच्च तदुपकरणं चरजोहरणादि तच्च भक्तपाने च देहश्च तथा, तानाश्रित्याधिकारो-गोचरो यस्य तत्तथा । अयमत्र भावार्थ:-एतान्युपकरणादीनि समस्तान्यशुच्यादिना रुधिरादिना (वा) खरण्टितानि प्रक्षालनीयानि, पूर्वयतिवरैरेवं कृतत्वाद्, भावशौचानुपरोधात्-संयमाक्षतेरिति ॥१७१।।
१(१७१)(अव०) द्रव्यं सचेतनाचेतनादि शिष्यादि । सचेतनानि अठ्ठारसपुरिसे० इत्यादौ । अचेतनानि रजोहरणाहारादीनि । एतावता यत्किञ्चिद् द्रव्यरूपं रजोहरणपात्रादिभक्तपानचतुर्विधाहाररूपाः देहः शरीरमेते चत्वारोऽपि विकृत्यन्नपानसंश्लिष्टाः । अविसंसृष्टाः । रुधिराद्यवयवस्पृष्टाः । अधिकारो विषयो गोचरो यस्य तत् । सर्वेषु कार्येषु निरुपलेपतायाः । क्रियाया अनुपरोधात्अपीडनात् ॥१७१॥