________________
१०६
प्रशमरतिप्रकरणम्
विनयायत्ताश्च गुणाः सर्वे विनयश्च मार्दवायत्तः । यस्मिन् मार्दवमखिलं स सर्वगुणभाक्त्वमाप्नोति ॥१६९॥ नानार्जवो विशुद्ध्यति न धर्ममाराधयत्यशुद्धात्मा । धर्मादृते न मोक्षो मोक्षात्परं सुखं नान्यत् ॥१७०॥
समादत्ते । ३अविद्यमानक्षमः, नासौ दयां समादत्ते, न सगृह्णातीति । क्रोधाविष्टो हि न कश्चिदपेक्षते चेतनमचेतनं च ऐहिकमामुष्मिकं ५च प्रत्यपायम् । तस्माद्यः क्षमाप्रधानः क्षान्त्या वा प्रकृष्टः स साधयत्याराधयति दशलक्षणमुत्तमं धर्ममिति ॥१६८।।
(१६९) टीका-मार्दवमधिकृत्याह-विनयायत्ताश्चेत्यादि । विनयो ज्ञानदर्शनचारित्रोपचाराख्यः । तदायत्ता गुणाः सर्वे मूलोत्तराख्याः । स च विनयो मार्दवायत्तः । मार्दवं च मानविजयः । गर्वे निराकृते उपचारविनयोऽभ्युत्थानाञ्जलिप्रग्रहादिकः शक्यः कर्तुम् । यत्र च २पुरुषे मार्दवमखिलं जात्यादिमदाष्टकनिराकारि स सर्वगुणभाग्भवति । ज्ञानदर्शनचारित्रसाध्याः सर्वे गुणास्तत्र रेसन्तीति । तस्मान्मानं निराकृत्य मार्दवमासेवनीयम् ॥१६९।।
(१७० ) टीका-मायामधिकृत्याह-नानार्जव इत्यादि । माया शाठ्यं कौटिल्यं, तत्प्रतिपक्षमार्जवं ऋजुता यथा चेष्टितं तथाख्याति, न किञ्चिदपहृते । यस्तु तथा न करोति, स खल्वनार्जवः, तस्य च शुचिर्नास्ति । तस्माद्यथाख्यातापराधप्रतिपन्नप्रायश्चित्तस्य शुद्धिर्जायते। तद्विपरीतस्य न जातुचिच्छुद्धिः । न चाशुद्धात्मा धर्ममाराधयति क्षमादिकम् ।
धर्ममिति ॥१६८॥
(१६९) (वि०) मार्दवमाह-विनयायत्ता इति । विनयायत्ता-गुर्वभ्युत्थानाद्यधीना गुणा-ज्ञानादयः सर्वे, विनयश्च मार्दवायत्तो-मृदुत्वाधीनो, यस्मिन् मार्दवमखिलं-समस्तं स प्राणी सर्वगुणभाक्त्वं-समस्तज्ञानाद्याश्रयतामाप्नोति-लभते, तस्मान्मार्दवं कार्यमिति ॥१६९।।
(१७० ) (वि०) आर्जवमाह-नानार्जव इति । यत् नानार्जवो-मायावान् विशुध्यति, न च धर्ममाराधयति-निष्पादयत्यशुद्धात्मा-सङ्क्लिष्टजीवो, धर्मादृते न मोक्षो-धर्मं विना न मुक्तिः, 'ऋतेः अत्रापि योगात् मोक्षादृते परमं सुखं नास्ति-न विद्यतेऽन्यदिति ॥१७०॥
(१६९) (अव०)-गुर्वभ्युत्थानाद्यधीना गुणा ज्ञानादयः । यस्मिन्=पुरुषे ॥१६९॥ (१७०) (अव०)-यथा चेष्टितं तथा ख्याति । तस्य च शुद्धिर्नास्ति ॥१७०॥