________________
प्रशमरतिप्रकरणम्
१०५
सेव्यः क्षान्तिर्दिवमार्जवशौचे च संयमत्यागौ । सत्यतपोब्रह्माकिञ्चन्यानीत्येष धर्मविधिः ॥१६७॥ धर्मस्य दया मूलं न चाक्षमावान् दयां समादत्ते । तस्माद्यः क्षान्तिपरः स साधयत्त्युत्तमं धर्मम् ॥१६८॥
(१६७) टीका-सेव्यः क्षान्तिरित्यादि । सेव्योऽनुष्ठेयो दशविधो धर्मः । तान् दश भेदान् नामग्राहमाचष्टे। शान्तिः १क्षमूषु सहने' क्षमितव्याः सोढव्याः आक्रोशप्रहारादयः । मार्दवं मानविजयस्तद्वत्तापनोदः । आर्जवं ऋजुता यथाचरिताख्यायिता । २शुचेर्भावः शौचम् । अलोभता विगततृष्णत्वम् । संयमः पञ्चाश्रवादिविरमणं पृथिवीकायसंयमादिर्वा सप्तदशभेदः । ३बान्धवधनादित्यागः प्रासुकैषणीयं वा साधुभ्यो भक्तपानवस्त्रपात्रादिदानं, यतिरेव ददाति स वा त्यागः । “सत्यं चतुर्विधम् । तपो द्वादशभेदं अनशनादिकम् । ब्रह्म अब्रह्मणो निवृत्तिः६ मैथुननिवृत्तिरित्यर्थः । अकिञ्चनस्य भाव आकिञ्चन्यं निष्परिग्रहता, धर्मोपकरणादृते नान्यत् किञ्चन परिग्राह्यम् । एष धर्मस्य विधिर्भेद इत्यर्थः ॥१६७॥
(१६८) टीका-क्षान्तेः प्राधान्यं प्रदर्शनायाह-धर्मस्य दया मूलमित्यादि । योऽयं दशप्रकारो धर्मस्तस्य दया मूलम् । दया प्राणिनां रक्षाऽहिंसेत्यर्थः । सा मूलं प्रतिष्ठा, धर्मस्याहिंसादिलक्षणत्वात् । प्राणिप्राणरक्षणार्थश्चाशेषव्रतोपदेशः । न चाक्षमावान् दयां
(१६७) (वि०) अथ दशविधधर्म उद्देशनिर्देशाभ्यामभिधीयते-सेव्य इति । सेव्यःआसेवनीयः एष धर्मविधि:-क्षान्त्यादिपुण्यविधानं, कथमिति ?, एवंप्रकारः, शान्तिः-कोपाभावः मार्दवं-मानविजयः । आर्जवं च शौचं च ते तथा, तत्रार्जवं-मृदु(ऋजु)ता शौचं-संयमनिर्लेपता अदत्तादानपरिहारो वा । चः समुच्चये । संयमत्यागौ, तत्र संयमः-सप्तदशभेदः त्यागस्तु द्रव्यभावग्रन्थत्यजनं ततो द्वन्द्वस्तौ सेव्यौ, सत्यादिपदचतुष्टयस्येतरेतरयोगः, तत्र सत्यं-मृषावर्जनं, तपः-अनशनादि, ब्रह्म-मैथुननिवृत्तिः, आकिञ्चन्यं-निष्परिग्रहत्वं, एतानि सेव्यानीति ॥१६७||
(१६८) (वि०) क्षान्तेः प्राधान्यदर्शनार्थमाह-धर्मस्येति । धर्मस्य दशप्रकारस्य दया मूलं । न चाक्षमावान् दयां समाधत्ते-करोति । तस्माद् यः क्षान्तिपरः स साधयत्युत्तमं
(१६७) (अव०)-१क्षान्तिः कोपाभावः । मार्दवं मानविजयः । आर्जवं ऋजुता । शौचं संयम प्रति निर्लेपता अदत्तादानपरिहारो वा । चः समुच्चये । संयमः सप्तदशभेदः । त्यागो द्रव्यभावग्रन्थत्यजनम् । ३सत्यं मृषावर्जनम् । तपोऽनशनादि । ब्रह्म-मैथुनविरतिः । आकिञ्चन्यं = नि:परिग्रहता । एष दशविधः ॥१६७॥
(१६८) (अव०) क्षमाप्रधानः ॥१६८॥