________________
१०४
प्रशमरतिप्रकरणम्
तस्मात् परीषहेन्द्रियगौरवगणनायकान् कषायरिपून् । क्षान्तिबलमार्दवार्जवसन्तोषैः साधयेद्धीरः ॥१६५॥ सञ्चिन्त्य कषायाणामुदयनिमित्तमुपशान्तिहेतुं च । त्रिकरणशुद्धमपि तयोः परिहारासेवने कार्ये ॥१६६॥
(१६५) टीका-तस्मात्परीषहेत्यादि । यस्मादेते रिपवो बलिनः कषायगणनायकाः। तस्मात्कषायानेव पूर्वं नायकानिन्द्रियादीनां विजयेत । जितेषु च नायकेषु हतं सैन्यमनायकमिन्द्रियादीनि । गणशब्दः प्रत्येकमभिसम्बध्यते इन्द्रियगणस्य परीषहगणस्य गौरवगणस्य च नायकाः प्रवर्तका नेतारः । तान् कषायान् वैरिणः क्षान्तिबलमार्दवार्जवसन्तोषैर्यथासङ्ख्यं साधयेद्धीरः। बलशब्दः प्रत्येकमभिसम्बध्यते क्षान्तिबलेन मार्दवबलेन आर्जवबलेन सन्तोषबलेन चतुरङ्गबलेनामुना बलेन साधयेद् उत्थितान् विरागमार्गाद्धीर: सात्त्विक इत्यर्थः । यथासङ्ख्यं क्रोधादयो रिपवः क्षान्त्यादिबलैः साध्या भवन्ति ॥१६५।।
(१६६) टीका-सञ्चिन्त्येत्यादि । कषायाणामुदयनिमित्तमालोच्य क्रोधादीनामनेन निमित्तेन अयं क्रोधादिकषायो जायत इति । उपशान्तिहेतुं २च सञ्चिन्त्य अनेन क्रियमाणेनायमुपशाम्यति कषायः प्रशमं गच्छति । अतस्तयोरुदयनिमित्तोपशमहेत्वोर्यथासङ्ख्यं परिहार आसेवनं च कार्यम् । परिहारोऽपि कार्यः कायवाङ्मनोभिः कृतकारितानुमतिभिश्च । उदयनिमित्तस्योपशान्तिहेतूनामपि कृतकारितानुमतिभिः पकायादिभिश्चासेवनं त्रिकरणशुद्धं कार्यमिति रागद्वेषमोहानां निवारणार्थम् ॥१६६।।
(१६५)(वि० ) तस्मादिति । तस्मात् कषाया एव रिपवः कषायरिपव: तान् । कीदृशान् ?परीषहेन्द्रियगौरवाणां गणः- समूहस्तस्य नायकास्तान्, गणशब्दः प्रत्येकमभिसम्बध्यते । साधयेत्विजयेत । कः?-धीर:-बुद्धिमान् । कैरित्याह-क्षान्तिबलादिभिरिति व्यक्तम् ।।१६५।।
(१६६) (वि०) सञ्चिन्त्येति । सञ्चिन्त्य-आलोच्य । केषाम् ?-कषायाणां । किं तत् ?उदयनिमित्तं-प्रादुर्भावकारणमुपशान्तेर्हेतुः-कारणं स तथा तं च, तयोः परिहारासेवने कार्ये, अयमर्थःकषायाणामुदयनिमित्तं परिहार्यमुपशान्तिहेतुरासेवनीयः । कथं ?-त्रिकरणशुद्धं यथा भवति कायवाङ्मनोनिर्दोषं, अपिरभ्युच्चय इति ॥१६६।। इति भावनाधिकारः ॥९॥
(१६५ ) (अव० )-गणशब्दः प्रत्येकमभिसम्बध्यते । नेतारः । तान् कषायारीन् पूर्वं, हतं सैन्यमनायकमिति न्यायात् ॥१६५॥
(१६६) (अव०) सञ्चिन्त्यालोच्य । उदयनिमित्तं-प्रादुर्भावकारणं । उपशान्तेर्हेतुः= कारणं च कषायाणामुदयनिमित्तं परिहार्यमुपशान्तिहेतुरासेवनीयः । 'त्रिकरणशुद्धं कायवाङ्मनोनिर्दोषं, अपिरभ्युच्चये ॥ इति भावनाधिकारः ॥१६६॥