________________
प्रशमरतिप्रकरणम्
१०३
तत् प्राप्य विरतिरत्नं विरागमार्गविजयो दुरधिगम्यः ।
इन्द्रियकषायगौरवपरीषहसपत्नविधुरेण ॥१६४॥ जीवितं सहसैव ध्वंसते न मे प्रस्तावं प्रतीक्षत इति । रागाद्वा न लभते विरतिम् । पत्नी पुत्रादिषु अनुरक्तहृदयो न शक्नोति त्यक्तुं गृहवासरतिम् । कुत्सिताः पन्थानः कापथाः २तैर्विलोकनं ३चित्तविभ्रमः । कः पुनरत्र पन्थाः संसारादुत्तारणे क्षम इति कापथजनितभ्रान्तिदर्शनादपि भ्रंशमवाप्नोति । दूरतर एव चारित्रलाभः। गौरववशाच्चेति । गौरवमादरः सक्तिः । ऋद्धिरससुखेषु ऋद्धिर्विभूति: महती द्रव्यसम्पत् तां हातुं न शक्नोति लोभकषायानुगतचेताः। रसेष्वभीष्टेषु तिक्तादिषु ५सक्तिरादरो गौरवं ६तां न शक्नोति हातुं रसनेन्द्रियवशीकरणात् । सुखगौरवं यथर्तुव्यपेक्षं प्रवातनिवातसाधारणशय्यासु शयनमाहारं इष्टचन्दनादिविलेपनं गन्धधूपमाल्यादिसेवनमिष्टस्त्रीपरिभोगश्च तदप्रत्यलः परिहर्तुम् । अतो बोधिलाभे सत्यपि सर्वविरतिर्दुर्लभेत्युक्तम् ॥१६३॥
(१६४) टीका-तत्प्राप्येत्यादि । सकलं विरतिरत्नं प्राप्य यदुक्तं पूर्वं दुर्लभं तदवाप्य सर्वविरतिरत्नम् । विरागमार्गविजयो 'दुरधिगम्यः । विरागस्य मार्गो रागप्रहाणमार्गः यथोक्तलक्षणः शास्त्रे 'हिंसादिष्विहामुत्र चापायावद्यदर्शनम् । दुःखमेव वेत्यादि ।' (तत्वार्थसूत्रम्-६४,५)एवंलक्षणकस्य विरागमार्गस्य विजयः परिचयोऽभ्यसनम् । अधिगम्यते प्राप्यतेऽधिगम्यः, दुःखेनाधिगम्यो दुःप्राप्य इत्यर्थः । कस्मात् पुनर्दुःखेनाधिगम्यत इत्याह-इन्द्रियाणि परिपन्थानि विरागमार्गस्य विघ्न कारणानि । कषायाः क्रोधादयः सपत्नाः शत्रवः परिपन्थिनः । गौरवमुक्तलक्षणं त्रिधा ऋद्धिरससाताख्यम् । क्षुत्पिपासादयः परिषहाः ते चानन्यतुल्याः सपत्नाः । एभिरिन्द्रियादिभिः सपत्नै विधुरो विसंस्थुल आकुलीकृतः न वैराग्यमार्गमभ्यसितुं समर्थो भवति । इन्द्रियादिसपत्नविधुरेण न शक्यते विरागमार्गविजयः कर्तुमिति ॥१६४॥
रागात्-पत्न्यादिस्नेहरागात्, कापथविलोकनात्-कुत्सितमार्गचित्तविभ्रमात्, गौरववशाच्चऋद्धिरससातायत्ततायाश्चेति ॥१६३।।
(१६४) (वि०) दुष्प्रापां तां विरतिं प्राप्य ततः किं कार्यमत आह-तदिति । तत्पूर्वोक्तस्वरूपं विरतिरेव रत्नं विरतिरत्नम् तत् प्राप्य-लब्ध्वा विरागमार्गस्य-विरागतापथस्य विजयःपरिचयोऽभ्यसनं स तथा, किं ?-दुरधिगम्यो-दुष्प्रापः । केनेत्याह-इन्द्रियादयः प्रतीतार्थास्त एव सपत्ना-वैरिणस्तैविधुरः-आकुलीकृतस्तेनेति ॥१६४।।
(१६४) (अव०)-१तत्प्राप्य रागप्रहाणमार्गो दःखेनाधिगम्यः इन्द्रियादय एव सपत्ना:-तैर्विह्वलेन विरागमार्गप्राप्तौ विजयस्तेन प्राप्तो न भवति, येन सर्वविरतिरवाप्तेति ॥१६४॥